पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः निशेशशनिशीनाशो नाशनाननिश निशानिनोऽश्ननीशान शूनशूनाननीनशत् ।। ९४॥ वैमानिकानां तधुद्धं पश्यतां नवतामगात् । गर्जते सिन्धुराजाजावर्जुनायोर्जितस्पृहा ॥९५ ।। मीमांसासुः सुमांसांससीमसोमसमः समम् । समासः सासमः सास मासि मासि स सोमसुत् ।॥ ९६ ।। इतः सकेशो लोकेश इतथानङ्कुशः कुशः। क्षिप्रक्षति - शस्त्रा शाशेवौ बभूवतुः ॥९७ ॥ शाशीकक शिशुक्र किंशुककोशकीशा शोकांशुके कुशिक- काशिकोशः । काशीशके शुक्रिकशाकि ककाशिकाशे केशीकशा कशिशशी शेशकेशः ॥ ९८॥ स राजा संजहाराजौ द्विषां तेजः स्वतेजसा । रसान्तरमिवाप्तानां स्रोतसां लवणोदधिः ॥ ९९ ॥ सारा सप्राणरक्षा वधसरसधवक्षा रणप्रासरासा देवासव्यासमग्रा पुरि कटकरिपुग्रामसव्यासवादे । दानासक्तेभमक्षा वरनमनरवक्षामभक्ते सनादा नासेधव्यालमव्यानिजरतिरजनिव्यामलव्याधसेना ॥ १० ॥ (महाप्रतिलोमानुलोमः) धृत्वा धृत्वा धनुर्धीरो बहुधा वसुधाधिपः । अव्याधि विविधैर्बाणैर्विव्याध व्याधवाहिनीम् ॥ १०१।। भ्रातातत्रापणिप्रायमसमसमदस्थामगत्या प्रकारा हावारम्भासनज्ञा जगति रणरसव्यासवत्ता कुताशा । 1016, Varat for 40 94,95, Not found in M 97,98,100,Not found in M