पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः अथान्तर्दृर्प्तनागाद्रौ रौद्रराजन्यवीचिके । नाम़ञ्जदत्र भीष्मौजा भीष्मकः समरार्णवे ॥ ५६ ।। तीव्रपादश्चरः साधू रोधो बासमहोऽयने । नेयहोमसवाधोरो धुस्सारश्चदपाव्रती ।। ५७ ।। (प्रतिलोमानुलोमार्द्धः) पिष्टारिः पांसुपीताशो द्रवद्भटघटाकुलः । रौद्रस्तस्याजिसंमर्दो विश्वविद्रावणोऽभवत् ।। ५८ ॥ आररास धरा सर्वा शूरराद्धवरासवा । वासरानसरादस्ताधूसरासधरादरात् ।। ५९॥ (मुरजबन्धः) तस्यासन्नुच्चरच्चापचक्रमुद्गरपट्टिशाः । सायकासारदीप्रासिप्रासप्रसरभास्वराः ॥६॥ सैनिका राजका रुष्टा मानिकाभायका रुचा। चारुकायप्रकारस्था गुरुका राजकारवः ॥६१ ।। (रजा) संसारे ससुरासुरे सुररसः सारोरसौ सुरिसू- रस्रंसाससरी सरासिरूरसा सुरूरसाः सारसा। सासारास्रसिरा सिरासरिसिरस्सूरे रिरंसा सुरः सूरी रासरसे ररेरसुसुरा रासो ररासौरसम् ।। ६२ ॥ स तत्र भीष्मको भीष्मं चक्रे तत्कर्म दारुणम् । ग्रीष्मोष्मधामवनवद्यथा भौ द्विषां बलम् ॥ ६॥ प्रसेनजिदनीकिन्याः सेनान्यासमुदासिता साऽयं तस्य चमूरुचैः सेनान्यासमुदासिता ॥६४ ॥ तस्योल्लसद्वहलमेलकदिव्यनाना- विधामदस्रपटलीकलुपावलोकः । 2 59d,M सरसादराद सवरादरात् 60-61 Not found in M BON सुसरस: for सुररसः. 63-66, Not found in M