पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

संप्तदशः सर्गः १२१ सज्जवा जयमिता मुखरास्याचापलासनपरा गुणघोषाः । अन्तरा चिरमुभे अपि सेने पत्तयश्च विशिखाश्च निपेतुः ॥ २५ ॥ प्रस्तुते प्रसृतरौद्ररसार्द्रे क्षत्रसंहरणनाटकनाट्ये। पूर्वमन्तकनटो रणरङ्गे बाणकुन्तकुसुमाञ्जलिमास्थत् ।। २६ ॥ मन्युना स्वरतरेण चमूनामेवमेत्य समभिधत सक्तम् । येन नाल्पमपि तत्क्षणमाजिं प्राय कश्चन कचाकचि मुत्का ॥२७॥ वज्रमुष्टिपरिपिष्टशिरस्रस्फोटभिन्नशिरसा सुभटानाम् । लोहपावकशिखाशतमिश्रं व्यज्यते स्म न परिस्रवदस्रम् ॥ २८॥ केडपि दीर्घदुरतिक्रमरथ्यामन्थनेन सुचिरं श्रमभाजः । संनिपेत्य करवाललतायाः छायया विदधुरूष्मविमोक्षम् ।। २९ ।। शुद्धदन्तरुचिभिः समदाभिर्द्योतमानकरपुष्करमाभिः । केऽपि गाढघटनामभिलेषुः प्रेयसीभिरिव पीलुघटामिः ॥३०॥ अभ्युपेत्य रमसाद्रणशौण्डाः सङ्गिनीमिरिषुभिर्ह्रतचित्ताः । निवृता युधि न केवलमासभेन्नमेव दिवि दिव्यवधूभिः ॥३१॥ सान्द्रबाणपटसंवृतमूर्तेर्दन्तिदन्तशयनीयशयस्य । मानिनः कुलवधूरिन रागादप्सरा व्यधित पार्श्वमशून्यम् ।। ३३ ।। योधमाहवविधावनुभूतं हस्तिहस्तपरिवेष्टनमिष्टम् । न व्यसस्मरदथेभकरोलरूपगृहनसुखेन सुरस्त्री ॥ ३३ ॥ क्षोभिताहवभुवस्तरुणाङ्गास्तिल्लितेन तरन तुरङ्गाः । आयतैर्जगृहिरे प्रविकीणैः कुञ्जराग्रकरवञ्चकबन्धैः ।। ३४ ।। 255,N.योगानं for घोषात, घोषाः is suggested 323, पद, M घto पद, suggested 260, N for CM कामिनः for मानिनः 29,29, Not found in M a,M अधित tor व्यथित 90a,M प्रभदाभिः for समदामिः 39d,M संतृष्णा for सुरस्त्री M for at 34,Not found in M 316, MT for e Thare is lacuna' in