पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः अभ्याशाभ्यागतभ्रंशेरभव्यैर्भूयसा जडैः । कालेऽप्युक्तं हितं पथ्यसपथ्यार्थं समर्थ्यते ।। ६६ ।। साम्यमेति गुरुः साम्ना क्षुभ्यते चामुना लघुः । शाम्यत्ययोऽम्भसा तप्तं सर्षिः सर्पति तूच्चकैः ॥६७ ॥ लघुरर्थलवखाभ्यमददुर्ललितक्रियः । अनुस्वं मन्यते शोच्यान् शक्रयुक्तार्थवानपि ॥ ६८ ॥ स्थाप्यमानोपि पथ्यार्थे नार्यः कालुष्यमश्नुते । परिवारे चिरन्यस्तः स्पृशति श्यामिकामसिः ॥ ६९॥ शक्तो बलीयानीशः सन् पिप्रीषुरतथात्मना । अतीयते यत्तत्रास्य किं भाव्यन्यदभावतः ।।७।। त्रिसृष्टस्त्वयि तेनाहमनुकम्प्येऽनुकम्पया। तत्तु त्वयान्यथाऽग्राहि यमाय स्पृहयालुना ॥७१ ॥ स्वभाग्यपरमाणूनां शेषोंऽशस्ते कियानपि । यदुग्रमपि तां श्लाघां त्वदर्थे साम्न्यचीकरत् ॥ ७२ ॥ अन्यथा क्व लघुश्लाध्यं साम क्व च स कप्फिणः । या़्जोपक्रमपूर्वं हि हरिर्नेष्टे मृगव्रजे ॥७३॥ क्रोधान्धकारितमुखं कुटिलो मलवान् जडः । लब्ध्वा बहुलपक्षं तं त्वं कृशो भव चन्द्रवत् ॥७४।। अभिषेणयतीशे नः क्षुब्धे वाब्धौ युगक्षये। जल्प यद्यल्पकोऽप्यंशः क्षिते स्वस्थोऽवशिष्यते ।। ७५ ।। कोऽलं व्योमाङ्गुलैर्मातुं मल्लः को मितपेऽम्बुधेः । अतिप्रमा़ञ्चमूस्तस्य कोऽवधारयितुं क्षमः ॥७६ ॥ 66bM अभः...जनैः अभव्यः.. dNageau for wat 67 Not found in M 68AM बलस्वामि for लवस्थाम्य M शुकशुका for शक्रयुक्ता 69,70, Not found in 1 710,M अति o अन्यथा a,M मया यस्य दयालुवा T2d,M धाम्यचीकरम् for:सीमन्याचीकरत 73,76,76 Not found it M