पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः तवृद्धिसहवृद्धाय प्रश्नो लीलां च नायकः । ननूदयादभिन्नास्थं व्योम्न्यभूल्लसनं रवेः ।। २७ ।। स्वत्स्वार्थसिद्ध्युपघ्नोऽयं मद्विसर्गः प्रभोरिह। वक्ष्यन् पुरोऽथ प्रस्तौति रूपकेष्वामुखं कविः ॥२८॥ त्वत्सम्बन्धे गत्ते पौढिं भर्तुर्भास्यन्त्यलं श्रियः ३.. भासन्ते सौधसंक्रान्ताश्चिरं चन्द्रस्य चन्द्रिकाः ॥ २९ ॥ भर्तुरेवानुभावोऽयं यदित्थं प्रातिभं मम । द्युमणिधुतिभिदृब्धं दर्पणं दृष्टिजैहयदम् ।। ३० ॥ तत्प्रेषणनभावोऽयं त्वत्प्रियं यन्मयाप्यते । अम्भसोडभ्रेण वृष्टस्य शुक्तौ मुक्तात्मता भवेत् ॥ ३१ ॥ वैभवेऽप्यनहङ्काराः शक्तावपि मृदुक्रिया। सौम्यास्तेजस्यपि स्यु के द्वित्रा अपि भवादृशाः ॥ ३२ ॥ शक्तिीर्नीत्या नयो लक्ष्म्या लक्ष्मीर्मैत्र्या गुणैरसौ । ते चात्मनात्मा बुद्ध्यासौ ते धीर्वाचानुगम्यते ॥३३॥ एवं गुणित्वेऽप्यर्हाद्य स्वार्थे ते जागरूकता । आत्मप्रयोजनत्वे हि वियुङ्के श्रीः शरीरिणम् ॥ ३४ ॥ श्रीरनाराधिते ते स्याद् बन्ध्या विन्ध्यपुरीपतौ । तनोः सर्वाङ्गवत्वेऽपि सेव्यो मूर्ध्नैव साध्यते ॥ ३५ ॥ त्वय्येवमस्वपक्षेऽपि प्रेम प्रस्तौति नः प्रभुः । लक्ष्येण लक्ष्मणा लक्ष्म्या लिप्यते मलददाय्यपि ॥३६॥ 27a, M for the b.M लीजा forलीला cd, M is very corrupt 28,29 Not found in M 30b,M यदीत्य for: यदित्य OM * for me a,M दृष्टिक्षणम् Kox oजैलयदम् Bib,M भयोच्यते for मयाध्यते 33,84 omitted in M 35a Mat for ते स्थाले ON स्पन्दो tor सेन्यो 360 N Ford Galgafe for the above