पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः न विनायकविक्रान्ता व दुर्गाननरोचिता । ईश्वरायतनत्वेऽपि न कुमारवृता च या ॥७॥ या चक्रेऽर्कांशुसंपर्कज्वलद्गल्यर्कपादपैः रत्नसालैर्द्युषद्धोषजुषां नीराजनं दिशाम् ॥ ८॥ आर्यलोकोऽर्कभासश्च यत्र तुल्यं महातपाः । भूमिभागोऽथ कवयः सभया सन्धिमत्सरा ॥९॥ कले पलायमानस्य तापितस्य नखाग्निभिः । तोदनैरिव या यूपैर्ददौ दिशि दिशि व्यथाम् ॥ १० ॥ रेजे विहारविच्छित्तिः सुगतानुग्रहासिता। सर्वतश्चैत्यया भूर्त्या मोक्षवल्लभमाश्रिता ॥ ११ ॥ स तां सतां संमतात्मा परीत्य पुरुधीः पुरीम् । जगाहेऽविरलां राजद्वारं दूतो जितद्विषः ।। १२ ।। अन्तर्विश्य विशां पत्ये विदितो वदतां वरः । सभासंभावनां सत्यां सत्यः सत्यं समाददे ॥ १३ ॥ स रेजे. राजके सञ्जे नृपस्येन्दोरिवान्तिके। तेजसा तारतारेण ताराराशाविवोशनाः ॥१४॥ तं ततः सन्ततस्यन्दिसान्द्रचन्द्रकचन्द्ररुक् । उचेऽञ्चितस्मितो दीप्तदीप्रसेनः प्रसेनजित् ॥ १५ ॥ आरोपितत्रिवर्गार्थोपक्रमैः संक्रमैरिव । कच्चिदञ्चति लोकेषु लोला लीलावतीपतेः ।। १६ ॥ 7d,N कुमारा for कुमार d,M आदता for आश्रिता 86,N गलद्... पावकैः for बलद...पादपैः TRE,N विरजा for अविरला. CM द्विषद for चुषद् 13aN अभिविश्य for अन्तर्विश्य GM amits bN पत्युः पत्ये -100,M दीपैः for चूपैः, d,M बभौ निशि निशि द्विषः sa,N समां संभावनालभ्य सभ्यः सोभ्यासमानों for दो दिशि दिशि व्यथाम् 14a,M सजन for सज्जे laN भेजे fort 15a,M ततः स and अन्ततः tor तन्वतः CM चैत्यमायायां for चैत्यया मूला d,N अमित सितच्छाया for अजितस्मितो दी