पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः गायं गाय निरवधि वधूसौधसेनामयोऽधः कामक्रीडाकुसुमकलिकाकुङ्मलीभावमूलम् । इत्थंकारं जनितरजनीज्यानिसाकल्यकल्याः कल्यं भर्त्रे द्रुतमचकथन् वन्दिनो वन्दनाभिः ॥ १ ॥ गर्जाजातं जनितजरठादेशमाणा(शा)* यथेदं प्रातः प्रातः प्रहतमुरजामेघमेधौषमुक्तम् । सद्यःं संस्था निरसिसिषते येन नैभृत्यलीना निद्राहंसी नलिननयना नेत्रनीलाब्जपुञ्जे ॥२॥ कारं कारं निधुवनविधीनुल्लसत्कान्ति कृच्छ्रा- दार्द्रा निद्रामधिगतवतां रागभाजां कथञ्चित् । दुखं दत्ते वदनपवनापूरितः कल्यकम्बुः शुद्धोऽपूतैर्मवति चपलैर्दूरलब्धान्तरः सन् ॥ ३ ॥ धातः पश्य प्रतिमतमसो मिश्ररागोद्गमस्य श्लिष्यदृष्टेरभिमतमुखे सौधवातायने च शश्वच्छङ्काशिथलितभुजालिङ्गनस्योज्जिहीते कोऽपि स्वादोऽभिसरणवधूचूर्णरम्योत्सवस्य ।। ४ ।। 2. गर्भागात for गजात बालेदं र यथेन्द्र 4 M3 quits.