पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः सममिलषित्ताश्लेषे पूर्व ततो धृतसाध्वसे चलदवयवे कान्तासङ्गात्ततो विहितत्रपे । निभृतचटुभिश्चेतोरुपैरथो दिवृताशये युवतिसुरते विश्रम्भार्द्रे ततर्प न वल्लभः ।। ३६ ।। फलमलधु किं लीलावल्ल्या गृहं नु गुणश्रिया- ममृतमथवैकस्थं पिण्डीकृतं तु रसायनम् । निधिरुत रतेः सर्वस्वं नु स्मरस्य न वल्लऊै- रिति सुवदनाबिम्बोष्ठानां रसः परिचिच्छिदे ॥ ३७॥ क्षणमानिभृतं सायन्मानं क्षणं क्षणमुत्सुकं क्षणमसुलभव्रीडं धीरं क्षणं क्षणमाकुलम् ऋजुभिरशठास्तुष्टैस्तुष्टाः प्रकृष्टरता रतै- र्विदिशुरवशा वश्यैः पुम्भिः प्रियाः सरसां दशाम् ॥ ३८॥ चिरपरिचितश्रीशङ्कानां धनाञ्जनशोचिषां श्रमजलपृथड्नीता जहुः स्थितिष्वथ सङ्गिषु अलभत पदं निद्रामुद्रा वधूजनचक्षुषां दलकुल इव श्यामाब्जानां शिलीमुखसंहतिः ॥३९॥ इत्थं ज्योत्स्नासमदमदिराक्षीवितासु क्षपासु क्रीडाकोडीकृतमकृतकोत्कम्पमाशिष्टकण्ठाः दृप्यत्स्वैर्णं प्रसभमकुतोभीतयस्तेन निन्यु- र्हृष्टान्ताभिः कुसुमधनुपाभीक्ष्णमक्ष्णा शिवेन* ॥ १०. इति श्रीकप्फिणाभ्युदये महाकाव्ये सुरतसम्भोगवर्णनो नाम चतुर्दशः सर्गः 39,M3 onuits.