पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः पुलककणिकामुक्तासत्या करालकपोलकं श्रमवशचलच्चक्षुस्तारं तरत्तिलकप्रभम् । अमलममिलत्पक्ष्मश्रेण्या प्रियावदनं यथा सुधिरमपिबद्दष्ट्या कामी मुखेन तथा कुतः ॥ २६ ॥ तनुरनुशये गाढाश्लेषो भुजेषु मदे महान् वपुषि पुलकोद्भेदी दृष्टौ प्रदिष्टनिमीलनः । बचसि विचरचाटुश्चित्ते चरिष्णुरनीचकै- रिति रतिरसावेशो यूनां ययौ शतशाखताम् ।। २७ ।। दशनदशनैरोष्ठो महौ न पल्लवकोमलो व्यपहत्तनखच्छेदादङ्गं शिरीषमृदुच्छवि न भुजलतिका गाढाश्लेषे श्रम ललिता ययौ युवतिषु किमप्यव्याख्येयं स्मरस्य विजृम्भितम् ।। २८ ।। किमुपगमिता मा तप्तद्विलोहवलदेकता- मुत रमयितुः स्यूताङ्गेऽङ्गे शितैः स्मरसायकैः विलयनमथ प्राप्ता रागानलोष्मभिरित्यहो न पतिभुजयोर्निस्पन्दाऽन्तः प्रिया निरचीयत ॥ २९ ॥ अपि कृतवती येषुः क्लान्तिं नवा नकमालिका मृदुधु सुदृशां भारेणेव स्थितं परिक्रर्मणा अलघु विहृतं तैरेवाङ्गैरनङ्गमहाहवे किमिव सुकरं नारूढानां दशामनुरागिणीम् ।। ३० ।। 26, M8 omits; b.M ** for a 7 अनु tor तनुMP for मदे hvi मेदो for भेदी प्रविष्ट for प्रशिष्ट ON विकट: for विचरंत 28b.N अन* for दर्ज EN पैः श्रमं ललिता ययुः 29. M3 omits M निष्फुलाझी निधन्दान्तः 30c, M3 formand for lagi