पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशो सर्गः रसरभलया रागस्थित्या मुहुः प्रियलालसं चिरगुणितया मानावृत्त्या मुहुः पिहितस्पृहम् । मधुमदमुदा लेभे लुभ्यन्नदुर्लभवल्लभो निधुवनविधिक्रीडालम्बं नितम्बवतीजनः ॥१॥ ग्रहगणगुरौ रागालग्ने विलासमहोत्सवें वपुषि सुदृशां श्रीप्रासादे प्रतिष्ठितमन्मथे कुचकलशकश्लिष्टैः सद्यः करै सुसमाहितं पुलकसलिलस्नातो जज्ञे जनो रतिकल्पकः ॥२॥ अनुमतमिवानेतुं पोषं तमीतमसां कुल दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाडकुरिताञ्जना: मदनहुतभुग्धूमच्छायैः पटैरसितैर्नृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ॥३॥ समधित न या रागिद्वन्द्वं बभूव न सा सखी न मदनवशे यावस्थातां न तावपि रागिणौ ! IM पुषितया for गुणितया e, for तस्य न्यन् 29;M TOT Lor TS , M m for sale JAM भगत for मनुमत a, लालसीभूतैः for भरसरः