पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्गः कृतागसामप्यनुमेनिरे ताः सखीभिरभ्यानयनं प्रियाणाम् । तदेव हि प्रेम स एव रागो न स्थायितां यत्र बिभर्ति कोपः ।। ४१ ॥ केलिकमेण नियमाक्षिपन्तमन्वक समागत्य पिधानमक्ष्णोः । स्पर्शान्तरात् संस्पृशती चिरस्य तदङ्गमेका न किलाभिजज्ञे ॥ ४२ ॥ अतृप्तमुच्छ्वासतरङ्गितानि सबाष्पकष्टस्खलिताक्षराणि । प्राप्तोऽनुगेहं निराशाम कान्तः सखीषु सन्देशपदानि तन्व्याः ॥ १३ ॥ प्रिये वधूर्यत्सहसाभ्युपेते व्रीडां व्यधत्तावनतिं मुखेन्दोः । प्रागुत्सुकं कातरमिष्टदृष्टावतर्जयत्तेन रुपेव चेतः ।। ४४ ।। अर्धावनद्धच्युतवेणिपुष्पा सालक्तकाग्राङ्गुलिरार्द्रगात्री ! भ्रष्टाङ्कसंसक्तविलेपशुक्तिसिक्तांशुकैका प्रियमभ्युदस्यात् ।। ४५ ।। शशाङ्कसंघर्षमिवावलम्ब्य कृतानुयात्राः प्रसभं तमोभिः । आमोदमत्तालिकुलाकुलाङ्यो नाथानिवोच्चैरभिस्रुरन्याः ॥ ४६॥ सन्ध्यानृत्यभ्रभिशिवभुजाभ्रंशिभस्मोघभासि ज्योत्स्नापूरेऽपरिमिति जगद्वयश्नुवाने हिमांशो: एकैकात्मप्रभवविशिखस्यूतगात्रैरिवाथो रागिद्वन्द्वैर्झटिति घटना गाढमन्योन्यमूहे ।। ४७ ।। इति श्रीकप्फिणाभ्युदये महाकाव्ये चन्द्रोद्यप्रसाधनवर्णनो दाम द्वादशः सर्गः। 410N forma BAHAN अन्वेक्षम् for अन्धक d. एकापि to एका न HAM अदृष्ट for अनुप्स PON देई for गेह 44sd, M दृष्ट्यावितर्जयत fox दृष्टावतर्जया 45,M3 omite, a N*: for 46bM कृतानुयाता:tor कृतानुबात्रा: 4TAN नृत्त । नृत्य