पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्गः अथेषदाधूततमोनुबन्धा प्राच्यां रुचिः केतकधूलिवर्णा । एष्पन्निशानाथचरिष्णुरथ्यरथ्या रजोराजिरिवाविरासीत् ॥ १ ॥ क्राम्यत् क्रमेणाम्बरगोचरेऽपि वलक्षमालक्ष्यत धौतधिष्ण्यम् । आविर्भवहुर्लभचन्द्रसङ्गक्षपावपुश्चन्दनचूर्णचारू ॥२॥ श्रीः शीतरश्मेर्ददृशेऽथ दृश्या प्राच्यामुदतिमिराकुलानाम् । आश्वासनोक्तीर्जगतां विवक्षोः स्मितप्रमेवोन्मिपिता मघोनः ॥ ३॥ तमोभिराधूसरिताधुनैव दोषाकुला साम्प्रतमेव भूत्वा । सैवाबभौ रात्रिरुपायतीन्दौ समागमः कस्य सतां न भूत्यै ॥ ४ ॥ अथ क्रमान्मुग्धमृणालकन्दसौन्दर्यगर्भा नुदती तमांसि । लेखोदगादिन्द्रदिशः सिताशोरैरावणस्येव विषाणकोटिः ॥५॥ केलिक्रियाशक्रकराग्रकृष्टशचीकचस्रस्तवतंसशोभैः इन्दोरमन्दैः खचिता मयूखैः पौरन्दरी सुन्दरतां दधे दिक् ॥ ६॥ कदम्बधामाधिकगौरमिन्दोर्विषक्तमूहे सुरधाम्नि धाम । उषानिलारूषितकल्पवल्लीपरिप्लुतप्रौढ्यपरागलीलाम् ॥ ७ ॥ अरोहतो धिष्ण्यपदं हिमांशोरम्भोनिधेगर्भगृहान्निरीय । सोपानराजीष्विव राजितासु विशश्रमुर्वीचिचमूषु पादाः ॥ ८॥ 12 अयश अमेषदाक SAMS ऐरावतस्य करावधान