पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मदमुचि दन्तिना कटकटाहककोटरके स्फटितमजीघटद्विकटषट्पदपेटकताम् ॥ ३१ ॥ अनुकरशीतमुख इव भैरवता वहता बहुबाहुषण्डपरिपुञ्जनया नूपुरम् ।। अजनि परस्परान्वयविधिर्जगदाक्रमण- प्रवणमहोदयेन तमसा नु तदा ककुभाम् ।। ३३ ।। जगदुदरे निधाय ससमुद्रनगाद्रिवनं पयसि निषेदुषा क्रमविलङ्घितलोकमुवा । अनवसितश्रिया दुरवबोधनयोद्गतिना सपदि न कृष्णता न समभारि तमीतमसा ॥ ३३ ॥ यदुरूहिरण्यगर्भकनकाण्डकवाटतले दिनकरदीपकज्जलजमह्नि ससञ्ज रजः । तदिदमुषावतारमरुदाहतिशातनया विगलितमन्धकारपटलच्छलमुच्छलितम् ॥ ३४ ॥ प्रियवसतिप्रयाणसमये पिदधत्पदवी- मिदमुपकारि नस्तम इतीव निमग्नगमाः। अलिमलिनस्य वेणिवलयस्य रुचा निचयै- रभिसरणोत्सुकाः प्रियतया युपुषुः सुदृशः ॥ ३५ ॥ तिमिरमबाधतावियुतयोर्मिथुनं पततो- र्विधिबहुधाकृताभिसरणोत्कधियस्तु वधूः 338, Mack for

  • अनुकरणाभिमुख kon अनुकरशीलमुख

ENTS पासपर tor यापुरम 93 M3 ornita b, Mis Dot clear fox wa निया 34b,M3 ससर्ज tor ससा 331M. प्रियतमाः for प्रियतया सुशाम् for सुश M प्रियतमाय व्ययुः सुदशः