पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः तिमिरविषाणकोटिभिरहस्करहेमतटे मदपरुषं प्रदोषवृषभेण रुषोल्लिखिते । वियदमितो बभार कृशसान्ध्यरुचिप्रचयैः प्रचुरसुवर्णचूर्णपटलैरिव पाटलताम् ॥ २१ ॥ गगनवने गभस्तिदलसन्ततिभिस्तरुण- स्तरणितरूः प्रदोषसमदद्विरदोहलितः चिरमचलत्तथाऽनुपदमस्य यथा विशदं दिशि दिशि शीर्यमाणमुडुपुष्पकुलं ददृशे ।। २२ ।। अनतिशयेन भुक्तसहवाससुखाः सुधियो ध्रुवमनुयान्ति सौहृदभुवां विकृतिप्रकृती। यदभिविभाव्य भास्करवियोगहतां नलिनीं जहुरिह चक्रवाकमिथुनान्यपि सङ्गतताम् ।। २३ ।। स्फुरति तदेव मण्डनविधौ मधुपायिकुलं विकसति सैव सान्द्रमकरन्दरसोज्ज्वलता। अथ च गतेऽस्तमंशुमति चैव बभौ नलिनी ध्रुवसुपात एव दयितच्युतिरेणदृशाम् ॥ २४ ॥ श्लथदलवेणयः पतति भर्तरि तिग्मकरे वपुरवनम्रपद्मवदनाः शतपत्रभुवः । वियुतरथाङ्गनामपृथुपक्षतिर्निधुतिभिः करतलताडनाभिरिव जघ्नुरथ व्यथिताः ॥ २५ ॥ श्रितवति शान्तिमूष्मणि कठोरतरे तरणे- स्तरलिततारकोत्करकुशेशयकोषकुलैः । 214,M रज: ko चूर्ण 220 N ug for us -28b. मुख for भुवा CM हरकर मारकर dm fa for 24a,M अतिपात for असुगात d.M TETTE for URL 25,26, M8 omits