पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः। अथात्यये गगनविहारभूजां गिरं गिरावृतुगणबन्धबन्धुरे। महीपतिः कुसुमचिचीषया चिरं वनावनीं व्यहृत वधूभिरावृतः ॥१॥ नृपे विशत्युपवनमन्मथाहवं तदाज्ञया पुलककरालकङ्कटाः । दधुस्तदा तदनुचरैः समुद्यता मनोभवप्रहरणमालिकाः स्त्रियः ॥२॥ अहो सखे कृतमतिसाधु काननं स्वलाञ्छनैर्नवकमनीयकान्तिभिः । स्मरः सुखादिदमिव मित्रममभ्यधाद् मधुं वधूजघनविभूषणारवैः ॥३॥ मृगीदृशां प्रसवचिचीषयोचच्कैर्लतान्तरप्रहितदृशां समुत्सुकम् । पथि स्खलच्चरणसरोजजा रुजा ददौ दशां सुविशदसीत्कृतां मुखे ॥ ४ ॥ अलक्तकच्छुरिततलै पुनः पुनः समुल्लसत्कमलपलाशकोमलैः । वधूपदैः शिरसि रसेन ताडितं तदङ्गणं सपदि सरामतामगात् ॥ ५॥ समं गतावभिमतपार्श्वमीलने निरन्तरे परिणतधर्मविन्दुना। व्ययोज्यत प्रखरनखव्रणार्तिना क्षणं प्रियाकुचकलशेन कामिनी ॥६॥ TO,NMB विहारमुसुया M9 विहारि for विहार HEN भवनि अवनी MS संयुक्त for बहना SMS गुप्तवान् for मन्यमा Hod,M:स्मर and:संधु: Kor स्वर: 2nd.मधु BM समागवाव भिमत MB समानतामभिमत C,M3 व्ययोध्यत: nd प्रणानिमा d.MIप्रिया र प्रियात धनवन: Tor उपवन