पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः मधुलिहः प्रविलोक्य हिमाहतां परिचितामपि पङ्कजिनी जहुः । क्व सुचिरं क्रियते मलिनात्मभिर्ध्रुवतरा बत रागमयी मतिः ॥ ५२ ॥ विदधती हिममारूतधुक्षितस्मरकृशानुविकीर्णकणाकृतिम् । नवनमेरुफलावलिराबभौ सुकपिशा कपिशावमुखादपि ॥ ५३॥.. विशकलं सकलं सुरतार्णवं पृथुतरं तु तरन्तु जना इति । निजजनी रजनीरभिवर्धयन्नृतुरहानिरहानि तनून्यधात् ॥ ५४॥ श्रितमभीष्टविशाखसुखार्द्रतां हिमरजाप्रसरैरत्तिभैरवम् । धवलयन् गगनं कृतकृत्तिकं शशिशिरः शिशिरः प्रमथोऽभवत् ५। ५५ ।। प्रणयिना निबिडैरिव पिण्डकैरधिमनो ज्वलतः स्मरतेजसः । मुमुषुरेणदृशस्तुहिनव्यथामसुतरां सुतरां स्तनमण्डलैः ।। ५६ ॥ व्यधित यां हिमचन्दनमण्डितामवनतो रसिकः शिशिरः स्वयम् । विशदकुन्दनिभात्प्रमदोदयाद् विहसतीह सतीव मही स्म सा॥ ५७ ।। तुहिनवातनवाततविभ्रमा सुभगता सुगता सुखदायिनी। अतिवरा विवरावियुता जहौ सफलिनीरलिनी रसताहता ।। ५८ ॥ भृङ्गा विनाशमभवत्सरसा हिमेन कम्पे तुषारमरूति स्वरसन्निभासः तीरेषु चावहत वाति कृताध्वनीन- कम्पे तुषारमरुति स्वरसन्निभासः* ॥ ५९॥ इत्यद्रावादधे श्रीर्ऋतभिरयतितं संगता वल्गुवल्ली- लेखे सुप्तालिमग्ना सरलदलरसग्रामलिप्तासुखेले। 544.N begins with to the last word. AM तनु ब्यधात for नून्यधात 96, M8 okite -5804 विहता, tor नियुता, M3. अदिवरा for अतिवरा M8सफलिनीरलिनीरसता कुतः