पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः अथ समं क्षितिपालमनोमुदे खचरसिद्धिवशाद्विविशुः श्रियम् । मधुमदध्वनितालिमनोरमद्रुमलये मलये सकलर्तवः ॥ १॥ कुसुमतानमता नवमञ्जरी प्रमदलाभदलाभरणद्रुमम् । अमृशदस्तशदस्तवकापदं मधुमलं विमलं बकुलं नृपः ॥२॥ विशदशीकरशीतलशालिषु प्रकृतिरातिनिर्झरवारिषु । रभसयन् सुरभौ नृपमाधवौ मतमरुद्धमरूद्धसुखोदयः ॥३॥ अभिमतेन विलीय निरन्तरं मधुकरेण परं परिचुम्बिता । रुचिररागरसस्व...... कोविकोसनमञ्जरी ॥४॥ अधिगतं परिम्भसुखामृतं श्रुतिपुषः पपुषा सुरभिश्रिया कुरवकेन निरन्तरमाददे ललिततोलिततोलितवल्लिना* ॥५॥ प्रणयिनीमवलम्ब्य रसोन्मुखीम मधुरहासवतीम कुसुमश्रियम् । विलसितुं सहकारमहीं मधुर्निविविशे चिविशेषपरिष्कृताम् ।। ६ ।। स्थिरधृतिर्नियमेन वनश्रितः कमपि मन्त्रमयं मधुपोऽजपत् । अभिचरन्निव पान्थविलासिनीर्निरवमो रवमोहितमानसः ॥७॥ 4,M3 omits. 5d,Mदक्षिततालिततानितवाहिना BaMOभवलोक्य for अगलग्थ्य Ta,M श्रियः for नित: a,M नरवमो tor निरमों