पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः।

अखर्वमौर्वानिमिवोदधेः प्लुतं फणीश्वरश्वाससमीरणेरणः । ज्वललाभाडम्बरचुरिबताम्बरं प्रकृष्टमैशिष्ट स चन्दनाचलम् ॥ १॥ श्रितं त्यजङ्गिः शमिभिः शरीरादरीनतान्तं बदरीनतान्तम् । श्रियं नियन्तं शकुनिप्रवृत्तमुदारवांशुमुदारवाम् ॥२॥ स्फीताम्बरप्लावि विशालभृङ्ग ज्योतीरसज्योतिषभङ्गस्तैः । बालय सन्दर्शनकाम्ययेन्दोर्या साधुदुग्धाब्धिमिनोजिहानम् ॥३॥ अमन्दसुधद्वसुधामहासा सुधामहासानुभलंचकार । उदामधीरध्वनिकुञ्जराय निकुञ्जरायं दधती तटोवी ॥४॥ यस्याग्रभू श्यामलमेघमालासनद्धजाम्बूनदसानुरेति । अन्तर्नितान्तज्वलदुज्ज्वलार्चिरुद्धमदावानलजाललीलाम् ॥ ५ ॥ यत्रालसप्रक्रमसारसालं मसारसालं दधती घिनोति । आक्रीडभूरच्छिदुरापरागे दुरापरागेऽपि रतिं दधाना ॥६॥ यत्कानने विश्नमकाम्ययेव सचन्दनाश्लेषविशेषशीते ! निजोममीष्मार्चिरुढतान्तिर्दधाति दीपांशुरसध्ययात्राम् ।। ७ ।।3a,M पीताम्बर for रफीताम्बर bf भासू for असते. in M3; असतेः suggested 5d,M मालिनीव for जामलीला Ba,N'S रस for छल O, MB भूभू० for सुर) 70,Ms and or for an in M for which an: is suggested