पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ पञ्चमः सर्गः

इति तत्र सुबाहुभारतीमनुसन्धातुमबन्ध्यया गिरा। गुरुसंगरकाम्यया कथां विदधानेषु नृपेषु निठुरम् ॥१॥ उपयाति साऽऽविले नले बहुसौवाहवरक्तिशंसया । सरसः समता विजृम्भया विकरालोत्कालकाविवर्तिनः ॥२॥ फणिनीच मुहुर्मुहुः क्रुधा रसनालिङ्गनसान्द्रसूक्कणि । पृथुकम्पबशे सुशर्मणि श्वसति श्वासहुताशकर्कशम् ॥ ३॥ कुपिताकुलकालघट्टनाविदलहन्तनिनाददारुणम् । मृदिताङ्गुलिममममरखनितं तन्वति तारमाकृतौ ॥ ४ ॥ रणरूढिकथाभिभाषिणं पवने यौवनभीषणोमणि पिबतीव सुबाहुमादरात् सततं संगरशौण्डया दृशा ॥ ५॥ वलयीकृतबाहुमण्डलीदृढपर्यशनिवेशनिश्चले । स्तिमितस्तिमितं शतध्वजे नृपचक्रस मतानि जिनति ॥६॥ पृथुवेपथुसंगतेदे दशनच्छेदविसंस्थुलस्थितेः । स्मितदीधितिदण्डधारणां विदधानेऽधरपल्लवक्षितेः ॥ ७॥1d,M3 नृपस्य वेदितम् for नृपेषु निष्ठुरम् "2a/M.बले for नछे 8h b,M३ लिखित for लिजन: 4a,M3 मावदौ । माता 5a,M3 विखापित toभिभाषिण