पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

सदसि दलितदृप्तारातिसेनाक्षतोत्थ- क्षतजजलनिमज्जत्कुज्जरस्वन्दनाश्रा। स्मरत सुचिरमुर्वी जामदग्न्यप्रसर्पत्- परुषपरशुपिष्टक्षत्रर्गोपसर्गम् ॥ ३८ ॥ सपदि नृपतिचक्रं प्रेक्षतां स्फारिताक्षं क्षितिपतिजयलक्ष्मीं नृत्यमानां भभाजौ। स्वकरतुलितकांस्याकारवेधोऽण्डखण्ड- क्षितिबलयविशेषाश्लेषसंघट्टयोपैः ॥ ३९ ॥ सवतु नियतिमेधामञ्जरीजातमेत- ज्जलधिजलकबाटलिटशैलावनम्रम् । मम सुरगिरिवन्तोद्भेदि भूपीठपुष्पं धृतधन्वननमालाकेशर कर्णपूरे ॥४०॥ विहितगुरुविकासभ्राजमानप्रवृद्धो- कलिकनृपसरोज मन्थरोन्मन्थमित्यम् । स्फुरदुपधि सुबाहुः तिप्रमाक्षिप्य वाक्य विचलित जदण्डव्यसितांसो व्यरंसीत् ॥ ४१ ॥ वाक्यं सौबाहवं तत्पवनशतधनुर्बभ्रुजम्भाम्बरीष प्रद्योतप्रोथपाण्ड्याः प्रसभमनुपदं तद्रसारब्धपोषैः भावैस्तद्वीजगभैर्मुखमिव चरमे सन्धयः सन्दधानाः पर्जन्यप्राज्यगर्जोर्जितमुदितशिवाः स्फूर्जदूर्जं जगर्जुः ॥ ४२ ॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये राजवाक्यं नाम चतुर्थः सर्गः।39d,M क्षितितलपरिवेया for क्षितिवलयविशेषा 40 E has far for which it is sug- gested, 42a,M reads here of. IV, 22. M3 has विw.lor दं b.MS घोषैः for पोषैः