पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः

सुखितनृपतिलक्ष्मीसंभृतस्मेरसान्द्र- स्मितकिरणकराला कान्तिमस्योद्वहन्ति ।। १५ ।। अपि विरचित्तसंस्था क्षुद्रदोषान्धकार- असरदलनदीक्षादक्षिणो दक्षिणायाम् . शरदि रविरिवारादाददात्येष तीव्रः प्रसृतकरसहस्रः सर्वदिग्भ्योऽपि सारम् ॥ १६ ॥ अविरतमविरक्ताः सन्ति चामी सहाया क्षयितबहुविपचार चत्रियाः फरशौर्याः । नियतमपि हि येषामेककालत्रिलोकी- कवलविधिरनिच्छामानविनादनिनः ॥१७॥ विपदसहसहायोत्साहशौर्यातिभार- स्वभुजवलसमिद्धो नद्धसम्पत्तिरेवम् । स्वमिव भुवनमा भूपते कोऽपरोऽस्ति त्रिभुवन विजिगीषापूरणकप्रवीरः ॥ १८ ॥ तदिह नरपते धीधीर करमादकस्साद् विजयजलधिमन्था मन्थरत्वं गता ते । विमृश भवदमपेन्दूदयैकप्रतीक्षा- श्वलभुजवनवीचिक्षोभिणः क्षत्रसिन्धून् ॥ १९ ॥ विधुररिपुपुरन्ध्रीतीनिश्चासताप- व्यतिकरित इवोच्चभीष्ममध्माणमाप्य । प्रकटितरिपुदाहों भाति यस्य प्रताप स्फुरति संदसि सोऽयं क्रूरकर्मा सुशर्मा ॥ २० ॥ दृद्धधनुरयमास्ते शौर्यशौण्डो यदीयः पृथुलपुलकजाला कोपकम्पच्छलेन ।15a तद् द्वार for'च कर b, M3 सैयुरो for संगरे 170,MS नियम for नियत