पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अहमहमिकयाहंकारहुंकारगर्भ हृदि रणरणकेषु क्ष्माभृतामुल्लसत्सु ॥ ४॥ विकटमुकुटरत्नाभ्युत्थितैरंशुजालै- र्वियति विहितशम्पं कम्पयित्वोत्तमाङ्गम् । अदयदशनदंशक्लान्तिभाजोऽधरस्य स्मितरुचिसुधयोच्चैः साधु संधाय सेकम् ॥ ५ ॥ बदलपवनगन्धाकृष्टदन्तांशुशुन भ्रमरभरनिभेन प्राजितव्यक्तवर्णाम् । प्रसभमभिससर्ज क्रोधवक्षिप्रतापा- दिव जितजडिमानं वाचवैः सुबाहुः ॥ ६॥ महति पतिसमाजे जल्पितैर्जातजाड्यैः किमपि किल विवक्षुर्यत त्रपां नावगाहे । तदिदमकृतकानां प्रेरिकाणां प्रसङ्ग- प्रसभमभिगतानां सक्रियाणां महत्त्वम् ॥ ७॥ प्रकृतिपरिचितत्वं रन्धरक्षाक्षमत्त्वं परुषमाथि हितार्थावायि विज्ञप्तिवाक्यम् यशसि रुचिरसाध्या धीरलालाटिकत्वं प्रभुषु भृशमभीमिर्जायते भृत्यभावः ॥ ८ ॥ समररभससेनासिन्धुसंधुक्षणेन्दुं प्रलयपवनमुग्रक्रोधचित्रार्चिषां वः। तदिह नृपतयो से शौर्यमाणिक्यशाणं सदसि वचनमेतत्सोपजोषं जुषध्वम् ॥ ९ ॥46 M3 for गर्त गर्म 6b,MS धनम् for वोम् Ph M. मानावराहे tor ना नानगाहे 9b,M भिन्न for चित्र d. उपयोग tor उपजोषं