पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः।

अथ सदासि समस्तायस्तभूपालचक्रे प्रकटितगुरुकोपारम्भसंरम्भजृम्भे । वहति विलसितानि प्रस्तुतानि प्रचण्ड- प्रलयजलदजालाडम्बरैरम्बरस्य ॥१॥ अनधिगतनृपाज्ञविघ्नितेच्छेषु दुःस्थ- स्थितिषु परिमृशत्सु स्थूलमंसस्थलाग्रम् । प्रभुमुखकृतलक्ष्यैरीक्षणैरक्षमेषु क्षितिपतिषु रणायान्वेक्षमाणेष्वनुज्ञाम् ॥ २॥ विदलितकरशाखं नर्तितभ्रुविलासा- नुमितनुपतिकार्यान्तर्गतम्याकुलत्वे । विदधति विनिबद्धव्यूहमन्योन्यमारात् किमपि सुनयचिन्तामन्त्रणं मन्त्रिवृन्दे ।। ३ ।। जनितभुजविजृम्भेष्वग्रदूतेषु काल्या: प्रहरणरणकण्डूकल्पिताचार्यकेषु ।Ba M3 for "2a,M वेश्यमाण for वेक्षमाण and नूनं Kor.नुशाम