पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः

नरेन्द्रचन्द्रस्य यथा यथोदयाद्विजम्मते तस्य स सैन्यसागरः । तथा तथा नूनमिमामपि क्षिति पुरा हरत्येव च का कोमिमिः ॥५०॥ तदित्यमुत्तिष्ठति तत्र दाणे दिने दिने रोग इवोल्वो रिपौ। प्रकोपनाय प्रशमाय वृष्यतां वृषद्युते दुर्विषहं विषं महत् ।। ५१ ॥ आयान्तु द्विरदस्थावपुञ्जभाजा पौराणां निनदपरम्पराः पुरस्ते । तस्वारेघृतप्रतिधामदुम्यास्तार श्रावस्त्यां श्रवणगुहागनातिथित्वम् ।। ५२॥ इति नृपतिसमाजघोमपैशुन्यकारि प्रणिधिरधिमहार्थ वाक्यमुञ्चरुदीर्य श्रमझमशिवभूमृद्धीक्षणाम्भोऽभिषिक्तः सपदि से विरराम प्राप्तसत्कारसारः ॥५३॥ इति श्रीकपिफणाभ्युदय महाकाव्ये चरविच्छेप- चिन्यासो नाम द्वितीयः सर्गः।SloM वृष्यतां दृश्यसो a,M3 प्रयुज्यने for M दूधधुते