पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः

महीभृतां भित्तिषु चित्रवर्तिनां पुर स्थितानां च भयेन निश्चलम् नृपासनाध्यासिनि यत्र कप्फिणेऽमरे विशेषो न निमेषतोऽभवत् ॥ ८॥ अनल्पसत्त्वाः कटकैः परिष्कृताः प्रकृष्टपक्षोच्छ्रितयः समुन्नताः । उदन्वतः कुक्षिमिव प्रविश्य यां न भूभृतः प्रापुरतिप्रकाशताम् ॥९॥ समाङ्गणे तत्र स लोकसङ्कुला विलङ्घ्य कक्षाः क्षितिपालमैक्षत । तपोधनः सत्त्वरजस्तमोभुवः परं व्यतीत्येव पुमांसमव्ययम् ।। १० ।। दधानमग्रास्थितदारसुन्दरीप्रकीर्णकोत्कीर्णसमीरणेरिताम् । चितौ नतां वक्षसि हारवल्लरी विलासदोलामिव तेजसां श्रियः ॥११॥ विलासतो मन्थरमन्धरं मुहुर्विवर्तयन्तं मणिभन्दुकं करे। रणेषु निर्जित्य जुहूषया हृतं द्विपद्यशःपिण्डमिव स्वतेजसि ॥ १२॥ मयूखभङ्गैः कनकाङ्गदोद्गतैः शिखासहस्रैरिव शौर्यतेजसः । भुजद्रुमे प्रारभमाणमुज्ज्वले जयाय नीराजनमाजिघस्मरे ॥ १३ ॥ किरीटकूटेन विटङ्कराजिकाविराजिजाम्बूनदजाततेजसा । विडम्बयन्त नयनानलांशुभिः कपोलपालि कपिला कपालिना ॥१४॥ चलाचलश्यामलपक्ष्मलक्ष्मणा तरङ्गितापाङ्गविवृत्तवृत्तिना। अभीक्ष्णमक्ष्णा ददतं क्षितिक्षितां प्रसादनीलोत्पलमालिकामिव ॥१५॥ अभङ्गुरग्राममुपाश्रितश्रुति स्वरेण संमूर्च्छितमूर्च्छनोच्छ्रिति । कलाप्रवीणैरुपवीणयद्भिरभ्युपास्यमानं कुशलं कुशीलवैः ॥ १६ ॥ प्रकोष्ठकोष्ठे कटकेन सङ्गिना विचित्रविच्छित्तिजुषा विराजितम् । भुरुमालानितशौर्यकुञ्जरप्रकाशकार्तस्वर‌शृङ्खलश्रिया ॥ १७ ॥80M. omits नि आध्यासिनि a,N परी for Sमरे 95, N'प्रकृत्त for भकृष्ट 10d,M प्रतीस्थेव for व्यतीत्येव ZMON कथ क्षितो वक्षसि तेजसा श्रियी a.N.विलासहीलामिय हारवलीम: 120, N has lost the folios after this upto VIII canto; 54th storiza, M3 जुहूपुरा-tor जुषया 15aMonits. क्षण; लेक्षणश्यामल 16b,M स्वरेषु for स्वरेण CM रियु for रभ्यु 17b,M विभिन्न for विचित्र And M3 सभाजितः for विराजित CM न्वित tor :नित कलानित