पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

ग्रीष्मावसानदिवसा इव यस्य लोके संकोचमीयुररयः परिहीणमानाः ॥४०॥ काष्ठान्तरज्वलिततीव्रतरप्रताप- सिद्धं प्रकल्पितकरेण महीपतीनाम् । दुग्धं यशोधिकृतनिर्वृति विश्वयात्रा- पानेण येन महता रभसेन पीतम् ॥४१॥ यस्य प्रयाणसमये करिकर्णजाल- कोणस्तुरङ्गखुरकुटनदीर्ण है। श्रान्तैर्दैिगम्बरबिलङ्घनतो निपत्य वापयासि पपिरे पृतनारजोभिः ॥४२॥ प्राज्यप्रतापजजयार्जितराजकोऽपि निश्कण्टकानि भुवनान्यपि यः प्रशासत् वाती चरैचिरमवाहयत प्रजाना- माचारतुच्छचरिता विभवेऽपि नार्याः ॥४३॥ इति निरतिशयश्रीशीलशौर्यवतोऽसौ दिशि दिशि नृपचेष्टाश्चिन्तयन् मण्डलोत्थाः । ज्वलितविजयराज्यप्राज्यतेजाः प्रजानां शिवममृतमनल्पं प्राप कीर्तिप्रवाहम् ॥४४॥ इति श्रीकाश्मीरभट्टशिवस्वामिनः कृतौ कप्फिणा- भ्युदये महाकाव्ये शिवाङ्के नगरनरेन्द्र वर्णनो नाम प्रथमः सर्गः।41bN सिद्धाप्रकमितकारेण महीनदीनाम : Ms the taMoश्रितो for तो sams äs in N. bM लोका-tor कोस्थाः EN भुक्त्वा पशोऽर्थकृतनिवृतः The colophon in N bus in M तुझं यशोऽधिकृतलिवंत and fars besides the text in M.