पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

दिग्दन्तिदृप्तरिणामनिखातदन्त- भग्नप्रभाङ्कुरकरालतलानि यस्याम् । नीलाश्मतोरणतटानि त्रिमुग्धहंसाः स्वच्छाम्बुनूतनमृणालरसादपश्यन् ॥ २०॥ लीनैर्विलासशयनीयगृहेषु यस्यां लीलाविमर्दलुलितैर्नलिनावतंसैः जग्मुः श्रियं मृगदृशां मकराङ्कमुक्तै- राकर्षपाशवलयैरिव भूमिभागाः ॥ २१ ॥ स्पर्शैर्दिशन कुसुमकार्मुकनर्मकर्म धर्मोर्मिमर्मरितमर्मसु शर्मशीतैः। यत्राश्लिषन्मरुदनिर्मदनर्मदाम्बु- कल्लोलशीकरकरालितशैलसानुः ॥ २२ ॥ तस्यामहीनकटकस्फुटवीरभद्र- संपृक्तशक्तिमहिमा भृतभूतिशोभः । भूभृद्बभूव बहुदर्शनभोग्यमूर्तिः श्रीकप्फिणः प्रभुरिवेन्दुकलावचूलः ॥ २३ ॥ उल्लास्य कालकरबालनवाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन । निर्यापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥२४॥20AN निखातभदन्त; bN तरानि for तलानि aN are for faraz in Mi 21a;N and M3 .. for den : for जहू: MI जनमः 22d,N शैलसातुः M has शलसारम्: 98DN मुक्तिशोभःN: चूल: Mचूडः 1, M reads us throughout. The i in Kapphiņ& is found in other texts see the Introduetion under the name Kapphiņa. 24a, Kavyaprakala has महास्युवाहं । 24dME ज्वलितप्रताप