पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः

उत्सङ्गिनीभिरवतंसपताकिकाभि- र्बन्धं व्यधादिव दिवि व्रणपट्टिकाभिः ॥३॥ यत्रान्वकारि चलचीनजवैजयन्ती- विन्याससारशिखरैर्भृशमैन्द्रनीलैः । ओकोभिराकुलमरुच्चलितद्यसिन्धु- विक्षिप्तवीचिवलयस्य विहायसः श्रीः ।।४।। दिग्दन्तिदानजलधूसरधाम्नि बिन्ध्य- स्कन्धे समिद्धमणिनद्धतलेन यस्याः । सौवर्णसानुवलयेन निकाषपट्ट- मूर्छन्महारजतराजिरुचा विरेजे ॥ ५ ॥ तिष्ठन् यदङ्कभुवि चामरधूतमन्त- स्तल्पोपभुक्तपटवासपरागपांसुम् । शृङ्गारवानिव गवाक्षामुखैः स्मयात् स्म ताम्बूलमुद्गिरति विभ्रमवासवर्गः ॥६॥ यस्यां विलासभवनेषु गवाक्षजाल- प्राज्यप्रवेशविशदाः क्षितिषु क्षपायाम् । कान्ताविमर्दसुरतत्रुटितावमुक्त- मुक्तावलीविलसितं दधुरिन्दुपादाः ॥७॥ ध्वान्तानुविद्ध इव नीलशिलालयानां भाभिः ससंन्ध्य इव शोणदृषद्गृहाणाम् । ज्योत्स्नावमृष्ट इव साधु च सौधधाम्नां यामीयिवान् रविरहर्बुबुधे त्रियामाम् ॥८Jan has बेन्में व्याबाद MB विद्ध व्यधात् 40M oraits in HOME मरुदलितेषु for मरमरिता "b, M3.04 for ना M३ साल for सानु० 6bM पांशुम् C,MS स्मयात्म for: सचूर्ण in e. Ta,M3. द्वारावली for मुक्तावली in M. Ba; ME निशाय for त्रियामा