पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
[ आदितस्तरङ्गः
कथासरित्सागरः ।

डाकिनीनादसंवृद्धगृध्रवायसवाशिते । उल्कामुखमुखोल्काग्निविस्फारितचितानले ॥

दुद्रौ तत्र मध्ये च स ताञ्शूलाधिरोपितान् । पुरुषान्नासिकछेदभियेवोध्र्वकृताननान् ॥

यावच्च निकटं तेषां प्राप तावन्नयोऽद्धि ते । वेतालुधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ॥

निष्कम्प एव खट्टेन सोऽपि प्रतिजघान ताक । न शिक्षितः प्रयत्न हि धीराणां हृदये भिया ॥

तेनापगतवेतालविकाराणां स नासिकाः । तेषां चकर्त बङा च कृती जग्राह वाससि ॥

आगच्छंश्च ददशैकं शवस्योपरि संस्थितम् । प्रव्राजकं श्मशानेऽत्र जपन्तं स विदूषकः ॥

तचेष्टालोकनक्रीडाकौतुकादुपगम्य तम् । प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ॥

क्षणाप्रव्राजकस्याधः फूत्कारं मुक्तवाञ्शवः । निरगच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ॥

गृहीत्वा सर्ष र्षांस्तांश्च स परिव्राजकस्ततः। उस्थाय ताडयामास शवं पाणितलेन तम् ॥

उदतिष्ठत्स चोत्तालघेतालाधिष्ठितः शवः । आरुरोह च तस्यैव स्कन्धे प्रव्राजकोऽथ सः ॥

तदरूढश्च सहसा गन्तुं प्रववृते ततः । विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ॥

नतिदूरमतिक्रम्य स ददर्श विदूषकः । शून्यं कात्यायनीमूर्तिसनाथं देवतागृहम् ॥

तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्ततः । विवेश गर्भभवनं वेतालोऽप्यपतद्भुवि ॥

विदूषकश्च तत्रासीद्युक्त्या पश्यन्नलक्षितः प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ॥

तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथास्मोपह्वरेण प्रीणामि भवतीमहम् ॥

इत्युक्तवन्तं तं तीव्रमत्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ॥

आदित्यसेननृपतेः सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह ततः प्राप्यसि वाञ्छितम् ॥

एतच्छुत्वा स निर्गत्य करेणाहत्य तं पुनः । प्रव्राडुत्थापयामास वेतालं मुक्तफूत्कृतिम् ॥

तस्य च स्कन्धमारुह्य निर्यद्वकानलार्चिषः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ॥

विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ॥

इहैव तावतिष्ठामि यावदायात्यसौ शठः । इत्यालोच्य स तथैव तस्थौ छन्नो विदूषकः ॥

प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजम् ॥

आययौ च गृहीत्वा तां गगनेन तमोमयः कान्तिप्रकाशितदिशं राहुः शशिकलामिव ॥

हा तात हाम्षेति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ॥

प्रविवेश च तत्कालं वेतालं प्रधिमुच्य सः । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ॥

तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखङ्गोऽत्र प्रविवेश विदूषकः ॥

आः पाप मालतीपुष्पममन हन्तुमीहसे । यस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ॥

इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः । प्रव्राजकस्य चिच्छेद खडेन स विदूषकः ॥

आश्वासयामास च तां राजपुत्रीं भयाकुलम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ॥

कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः नयेयमिति तत्काळम सौ धीरो व्यचिन्तयत ॥

भो विदूषक एवेतद्योऽयं प्रव्राट् त्वया हतः । महनेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ॥

ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ॥

तद्द्वयैतदीयांस्त्वं सर्षपान्वीर येन ते । इममेकां निशमश्च भविष्यत्यम् धरे गतिः ॥

इत्याकाशगता वाणी जातहर्षे जगाद तम् । अनुगृह्णन्ति हि प्रायो देवता अपि तादृशम् ॥

ततो वस्त्राचलत्तस्य स परिव्राजकस्य तान् । जमाह सर्षपान्हस्ते तामद्वे च नृपात्मजाम् ॥

यावच्च देवीभवनात्स तस्मान्निर्ययौं बहिः । उच्चचार पुनस्ताबद्न्या नभसि भारती ॥

इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं ॥

तच्छुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः । उपपात नभो बिभ्रद्राजपुत्रीं विदूषकः ॥



१. मालतीमाधवपञ्चमाङ्कस्थाघोरघण्टकपालकुण्डलामाधवमालयादिकथानुकरोतीमां कथाम्.