पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ कथासरित्सागरः । [ आदितस्तरङ्गः १२ ततः स बालभावेन क्रीडामृगशिखं विना । हेवाकी त्रिदिवं गत्वा प्रारोदीत्पितुरग्रतः । तेन तस्य कृते शक्रोऽकारयद्विश्वकर्मणा । सुधासेकार्षतप्राणं हेमरत्नमयं मृगम् ॥ अथ तेन स चिक्रीड जयन्तः संतुतोष च । सोऽप्यत्र तस्थौ विहरनके हरिणपोतकः । कालेनेन्द्रजितान्वर्थनाम्ना रावणसूनुना । सोऽपहृत्य मृगो निन्ये लङ्कां स्वनगरीं दिवः । गते च काळे हतयोः सीताहरणमन्युना। रामलक्ष्मणवीराभ्यां रावणेन्द्रजितोस्तयोः ॥ लङ्गराज्येऽभिषिक्तस्य राक्षसेन्द्रस्य मन्दिरे । विभीषणस्य सोऽतिष्ठद्रनहेममृगोऽद्भुतः ॥ विभीषणश्च तं मह्यमुत्सवे जातुचिर्तेझन् । नीतायै भर्तृबान्धव्यान्भृगं संमानयन्नदात् । सोऽयं मृगशिशुर्दिव्यो बर्ततेऽद्य गृहे मम । मया च त्वत्प्रभोरेव कर्तव्योऽयमुपायनम् । इति सा याबदाख्याति यक्षिणी मे कथाक्रमम् । तावत्कमलिनीकान्तो रविरस्तमुपाययौ । ततस्तया समादिष्टे धाम्नि संध्याविधेः परम् । सिंहृळेश्वरदूतोऽयमहं च शयितावुभौ । प्रातः प्रबुद्धौ पश्यावो यावद्वामनीकिनीम् । प्राप्तौ विक्रमशक्तेस्तां सामन्तस्य तव प्रभो । ततो विचिन्त्य यक्षिण्यास्तप्रभावविलुम्भितम् । पार्श्व विक्रमशक्तेद्रग्गतावावां सविस्मयौ । स च दृश्चैव संमान्य कुशठं परिपृच्छय च । सिंहलेश्वरसंदेशं यावन्नैौ प्रष्टुमिच्छति । तावत्ते यक्षिणीप्रोक्तस्वरूपे दिव्यकन्यके । मृगपोतश्च संप्राप्तास्तत्र यक्षचमूवृताः । तान्दृष्ट्वा दुष्टभूतादिमायाशी स संशयात् । देव विक्रमशक्तिर्मा किमेतदिति पृष्टवान् । ततः ससिंहलाधीशकार्यं तस्मायहं क्रमात् । यक्षिणीकन्यकायुग्ममृगोदन्तमवर्णयम् ।। यक्षीमुखच्छुतं तं च सर्वेषामैकमत्यतः । राजद्विष्टोद्यमं राज्ञां तस्यावोचमहं ततः । ततः स संमान्यानां च दिव्यकन्ये च ते उभे । प्रहृष्टः सैन्यमकरोत्सामन्तः सज्जमाहवे । क्षणाचाश्रावि देवात्र सैन्यतुर्यमहारवः। क्षणाचदशीि सम्लेच्छं प्रतिराजबलं महत् । अन्योन्यर्शनीधादभिधावितयोस्तयोः । प्रावर्तत द्वयोर्युद्धमस्मरसैन्यारिसैन्ययोः । ततो यक्षीविसृटैस्तैर्यवैरस्मद्विषद्वलम् । अन्यैरस्मद्भटाविटैरन्यैः सख्यादहन्यत ॥ सैन्यरेणुगणाकीर्णं खङ्गधारानिरन्तरम् । सशुगर्जितं घोरमुदभूद्रणदुर्दिनम् । छेदोच्छलद्भिर्जुषतां निपतद्भिश्च मूर्धभिः । अशोभत जयश्रीर्नः क्रीडन्ती कन्दुकैरिव ।। क्षणाच हतशेषास्ते राजानो भनसैनिकाः । त्वत्सामन्तस्य कटकं प्रणताः शरणं श्रिताः । ततो जितासु सीपास्खशासु चतसृष्वपि । उत्सादितेषु म्लेच्छेषु सर्वभूमीश्वर त्वया । निजेन भनें सहिता प्रकटीभूय यक्षिणी । देव विक्रमशक्ति तं मां चैवं वदति स्म सा ॥ मया यदेतद्विहितं सेवामानं भवत्प्रभोः । तद्वेधं पुनश्चैवं स विज्ञाप्यो गिरा मम । त्वयैते परिणेतव्ये कन्यके देवनिर्भिते । द्रष्टव्ये च प्रसादेन लालनीयोऽध्ययं मृगः । मदीयं प्राभृतं चैतदित्युक्त्वा रत्नसंचयम् । दत्वा यक्षी तिरोऽभूत्सा भर्ना सह सहानुगा । अन्येद्युः परिवारेण विभवेन च भूयसा । आगान्मदनलेखा सा सिंहलेश्वरकन्यका ! कृत्वा प्रत्युद्गम साथ तेन विक्रमशक्तिना । प्रावेश्यत स्वकटकं प्रणतेन ग्रहर्षतः । द्वितीयेऽह्नि गृहीत्वा तां ते चोभे दिव्यकन्यके । हेमरत्नमृगं तं च त्रिजगन्नेत्रकौतुकम् । सिद्धकार्यं इहागन्तुं देवपाददिदृक्षया । ततो विक्रमशक्तिः स चलितो राजभिः सह ।। स चेह निकटप्राप्तः सामन्तो देव वर्तते । आवेदनाय देवस्य तेनाबां प्रेषितौ पुरः । तद्देव सिंहलेन्द्रस्य यक्षिण्याश्चानुरोधतः । तत्कन्याहरिणान्देवः प्रत्युद्यातु नृपानपि । इत्युक्तोऽनङ्गदेवेन विक्रमादित्यभूपतिः । ऋतं दुःसाध्यमपि तद्यक्षिणीरक्षणं स्मरन् । नामन्यत तृणायापि श्रुत्वा तप्रत्युपक्रियाम् । बहु कृत्वापि मन्यन्ते स्वल्पमेव महाशयाः । हृष्टश्च सिंहलाधीशदूतयुक्तं पुनः स तम् । अनङ्गदेवं हस्त्यश्वग्रामरत्नैरपूरयत् । नीत्वा दिनं तदथ सिंहलराजपुत्र्यास्तस्यास्तयोः कमलजोद्भवकन्ययोश्च।