पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ कथासरित्सागरः । [ आदितस्तरङ्गः १ क्रमाच्छुतिपथायातो राज्ञा सोभ्यर्थितोऽपि यत् । नागात्तदन्तिकं तत्स राजा तत्पार्श्वमाययौ । स्थित्वा कथाभिश्च चिरं सायं तस्मिन्यियासति । राज्यकस्माच्छिवा चक्रे शब्दं तत्र विदूरतः । तच्छुस्वा तापसच्छद्मा कितवो हसति स्म सः । किमेतदिति पृष्टश्च किमनेनेत्यभाषत । न्धाच नृपे पृच्छयुवाचैवं स मायिकः । अटव्यां नगरस्यास्य पूर्वतो वेतसीतले ।। रत्नाभरणपूर्णाऽस्ति कलशस्तद्रुह्वण तम् । इत्युक्तं मे रुतज्ञस्य नृपते शिवयैतया । उक्त्वैवं कौतुकाविष्टं नीत्वा तं तत्र भूपतिम् । ज्ञात्वा स भूमिमुद्धृत्य तस्मै तं कलशं ददौ ।। ततः स लब्धाभरणः संजातप्रत्ययो नृपः। ज्ञानिनं सत्यवाचं तं मेने निःस्पृहतापसम् ॥ आनीय स्वाश्रमं तं च मुहुर्नात्वा च पादयोः । स ययौ मन्दिरं नक्तं सामान्यस्तदृणान्स्तुवन् । एवं क्रमात्तमायान्तं धूत रुतमिषानृपम् । सोऽन्यांस्त्रीन्रत्नकलशान्दिग्भ्योऽन्याभ्यो व्यलम्भयत् ॥ ततः स राजा पौराश्च मत्रिणोऽन्तःपुराणि च । तत्तापसैकभक्तानि तन्मयान्येव जज्ञिरे ॥ एकदा नीयमांनश्च देवागारेक्षणाय सः । राज्ञा कृतापसोऽश्रौषीपणे काकवाशितम् । ततोऽब्रवीत्तं राजानं क्षुता काकस्य वाक्त्वया । आपणेऽनैव देवाग्रे निखातो भुवि तिष्ठति । सद्रत्नपूर्णः कछशः कस्मात्सोऽपि न गृह्यते । इत्येतदुक्तं काकेन तदेहि स्वीकुरुष्व तत् । इत्युक्त्वा तत्र नीत्वा तं भूमेरुद्धृत्य भूभृते । सद्रत्नकलशं प्रादात्स तस्मै कूटतापसः । ततोऽतिपरितोषात्स स्वयं हस्तेऽवलम्ब्य तम् । कपटज्ञानिनं राजा देवागारं प्रविष्टवान् । तत्र स्तम्भे समाधूय परिव्राट् सालभञ्जिकाम् । अनुप्रविष्टां प्रियया कळावस्या ददर्श ताम् । कलावती च तत्सालभञ्जिकारूपधारिणी । दुःखिता तं पतिं दृष्ट्वा प्रारेभे तत्र रोदितुम् । तदृष्ट्वा सानुगो राजा सविस्मयविषाद्वान् । ज्ञान्याभासमपृच्छत्तं किमिदं भगवन्निति । ततो विषण्णविभ्रान्त इव धूतं जगाद सः। एहि स्वभवनं तत्र वच्म्यवक्तव्यमष्यदः । इत्युक्त्वा स नृपं नीत्वा राजधानीमुवाच तम् । अस्थाने कुमुहूर्ते च देवागारमिदं त्वया । यत्कृतं तत्तृतीयेऽह्नि भविष्यत्यहितं तव । अतस्त्वद्दर्शनात्सैषा प्रारोदीस्तम्भपुत्रिका । तच्छरीरेण चेत्ञ्यं तव निलँठ्य तनृप । अथैवैतद्भुतं देवकुलं भूमिसमं कुरु । सुस्थाने सुमुहूर्ते च कुर्वन्यत्र सुरालयम् । अनिमित्तं शमं यातु सराष्ट्रस्यास्तु ते शिवम् । इत्युक्तस्तेन स नृपः समाज्ञाप्य भयात्प्रजाः । एकाहेनैव तद्देवगृहं भूमिसमं व्यधात् । स्थानान्तरे च प्रारेभे कर्तृ देवकुटुं पुनः । अहो विश्वस्य वक्ष्यन्ते धूतैश्छद्मभिरीश्वराः । सिद्धकार्यस्ततस्त्यक्त्वा प्रत्रायं पलाय्य सः । ठिण्ठाकरालः कितवः प्रायादुजयिनीं ततः ।। कलावती च तद्वद्वा शापमुक्ताभ्युपेत्य तम् । मार्गे हृष्टा समाश्वास्य द्रष्टुमिन्द्रमगाद्दिवम् । इन्द्रोऽपि विस्मितो बुबा तन्मुखतस्य तत्पतेः । मायां तां चूतकारस्य जहास च तुतोष च ततः पार्श्वस्थितः शक्रे तमुवाच बृहस्पतिः। विचित्रमायाः कितधा ईदृश एव सर्वदा । पुराकल्पे तथा चाभून्नगरे कितवः क्कचित् । कुट्टिनीकपटो नाम कपटयूतकोविदः ॥ परलोकगतं तं च धर्मराजः किलाब्रवीत् । कल्पं नरकवासस्ते कितवास्ति स्वपातकैः । एकं तु दिनमिन्द्रत्वमस्ति दानवशात्तव । दत्तं ब्रह्मविदे कं सुवर्णं जातुचित्वया । तडूहि पूर्वं किं भुझे नरकं किमुतेन्द्रताम् । तच्छुत्वा कितवोऽवोचद्भुजे प्रागिन्द्रतामिति ॥ ततः स धर्मराजेन प्रेषितः कितवो दिवि। एकादमिन्द्रमुत्थाप्य देवें राज्येऽभ्यषिच्यत ॥ संप्राप्तदेवरायः सन्नानाय्य कितवान्सखीन् । स्ववेश्याश्च दिवं देवानादिदेशाधिपत्यतः । नीत्वास्मान्सर्वतीर्थेषु सर्वान्नपयत क्षणात् । दिव्येष्वपि च भौमेषु सप्तद्वीपगतेष्वपि । अनुप्रविश्य चाचैव भूपतीन्निलिलान्भुवि । प्रयच्छत महादानान्यस्मदर्थमनारतम् । इत्यादिष्टाः सुरास्तेन सर्वे चक्षुस्तदैव तत् । धूतपापः स तैः पुण्यैर्धर्तः प्रापेन्द्रतां स्थिराम् ॥ तद्वयस्याश्च वेश्याश्च ये तेनानायिता. दिवम् । अमरत्वं ययुस्तेऽपि तत्प्रसादाद्धतांहसः ।