पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ कथासरित्सागरः । [आदितस्तरङ्गः साष्यर्चयन्त्यनुदिनं गगनेन गत्वा सिीश्वरं कमलजादिनिषेवितं तम् । स्वप्ने हरेण गदितं गिरिजाश्रमेऽत्र पद्मावती नियमजयपरावतस्थे । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलचके चतुर्थस्तरङ्गः । पञ्चमस्तरङ्गः एवं पद्मावती यावत्तत्प्राप्यै संश्रिता तपः । तावत्स्वनगरं मुक्ताफलकेतुरवाप्य सः । ब्रह्मशापवशासनमानुष्यावतरो भयात् । विद्याधरेन्द्रतनयः शरणं शिश्रिये शिवम् । तमर्चयंश्च तद्भर्भगृहाच्छुश्राव भारतीम् । मा भैषीर्न हि ते गर्भवासळेशो भविष्यति ॥ मानुष्ये नापि ते दुःखं भावि नापि चिरं स्थितिः । जनिष्यसे राजसुतो महाबलपराक्रमः । तपोधनान्मुनेः कृत्स्नमत्रभ्राममवाप्स्यसि । सदीयः किंकराख्यश्च गणस्ते भवितानुजः । तत्सहायो रिपूजित्वा कृत्वा कार्यं दिवौकसाम् । कर्तासि खेचरैश्वर्यं पद्मावत्या युतः पुनः । एवं श्रुत्वा गिरं बद्धधृतिः शापफलागमम् । प्रतीक्षमाण इव तं तस्थौ रजसुतोऽथ सः । अत्रान्तरे कथासंधौ पूर्वस्यां नगरं दिशि । आसीद्देवसभं नाम जितदेवसभं श्रिया । तत्र मेरुध्वजो नाम सार्वभौमोऽभवत्रपः । सहायो देवराजस्य देवासुररणागमे । यस्य लोभो यशस्यासीन्न परस्वे महात्मनः । तैक्ष्ण्यं खङ्ग न दण्डे तु भयं पापान्न शत्रुतः ।। कुटिलत्वं भृघोः कोपे नाशये यस्य चाभवत् । मौर्वीकिणके पारुष्यं भुजे न वचने पुनः ।। व्यधाद्युधि न कोषे तु यो दीनारातिरक्षणम् । रतिं च धर्मचर्यासु श्रद्दधे नाङ्गनासु यः । तस्याभूतामुभे चिन्ते भूपतेः सततं हृदि । एका पुत्रो न यत्तस्य तावदेकोऽप्यजायत ॥ द्वितीया चापि यत्पूर्वं देवासुरमह।हवात् । जग्मुः पातालमसुरा हतशेषाः पलाय्य ये । ते निर्गत्य ततो दूरात्सतीर्थायतनाश्रमान् । विनाश्यैवच्छलातस्य पातालमसकृद्ययुः । न च तान्प्राप स नृपः पातालव्योमचारिणः । तेजस्वी तेन संतेपे निःसपत्नेऽपि भूतले । एतञ्चिन्ताकुले जातु शक्रप्रहितसद्रथः । देवास्थानं ययौ सोऽत्र चैत्रशुकृदिनागमे ।। शक्रस्य वत्सरारम्भे सर्वास्थानं तथाहि तत् । तद्रथेन स याति स्म राजा मेरुध्वजः सदा ॥ तदा तु तत्र दिव्यस्त्रीनृत्तगीताकुलेऽपि सः। संमानितोऽपि शक्रेण निःश्वसन्नास्त भूपतिः । तदृष्टा ज्ञातहृदयो देवराजो जगाद तम् । राजजानाम्यहं यत्ते दुःखं तन्मा च भूतव । मुक्ताफलाध्वजाख्यस्ते शिवांशो जनिता सुतः । एको गणावतारश्च द्वितीयो मलयध्वजः । तपोधनान्मुनेर्विद्यः कामरूपं च वाहनम् । मुक्ताफलध्वजः प्राप्स्यत्यस्त्राणि च सहानुजः । महापाशुपतास्त्रं च पुनः प्राप्य स दुर्जयः । करिष्यति वशे पृथ्वीं पातालं च हतासुरः । त्वं च व्योमचरावेतौ समहस्त्रौ गृहाण मे । वारणं काञ्चनगिरिं तथा काञ्चनशेखरम्। इत्युक्त्वाघ्रगजान्दत्त्वा प्रेषितः सोऽथ वक्रिणा । आगान्मेरुध्वजो हृष्टो भूतले नगरं निजम् ते तु च्छलकृतावद्यास्तस्य पातालसंश्रयात् । खेचरत्वं गतस्यापि प्राप्या नासन्किलासुरः । ततः शक्राच्छूतस्यासौ राजा पुत्रेच्छुराश्रमम् । तपोधनस्य तस्यर्षेर्ययौ दिव्येभवाहनः तत्राभिगम्य तमृषिं शक्रादेशं निवेद्य तम् । भगवन्नादिशोपायं शीणं मेऽत्रेति सोऽब्रवीत् । स च तस्याचिरेणेष्टसिद्धये मुनिरादिशत् । ब्रतमाराधनं शंभोः सभार्यस्य महीभुजः । स तेनाराधयामास व्रतेनोर्वीपतिः शिवम् । तुष्टः स च विभुः स्वप्ने तमेवमवदनृपम् । उत्तिष्ठ राजन्प्राप्तासि क्रमेणैवाविलम्बितम् । शेषासुरविनाशाय द्वौ पुत्रावपरजित । एतच्छुत्वा प्रबुध्यैव प्रातरुक्त्वा मुनेश्च सः । सभार्यः पारणं कृत्वा राजा स्वपुरमाययौ । तत्र तस्य महादेवी राशी मेरुध्वजस्य सा । त्रष्टुं दिनैः कतिपयैः प्रतिपेदे सुलक्षणा । तस्याः स गर्भ समभून्मुक्त्वा शापवशेन ताम् । वैद्यधरीं तनं मुक्ताफलकेतुरतर्कितम् ।