पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७८
[ आदितस्त
कथासरित्त्सागरः

तच्छुत्वा किं वणिक्स स्यात्सा मन्दारवती च किम् । इति सुन्दरसेनोऽन्तर्विन्ध्यकेतुश्च दध्य ॥
प्रवेश्यतामिहैवासौ स्त्री चेत्युक्तवतोस्तयोः। प्रावेशयचमूपस्तं वणिजं तां च योषितम् ॥
ततो दृश्चैव तौ सोऽत्र दृढबुद्धिरभाषत । सैव मन्दारवत्येषा देवी सैष च दुर्वणिछ ॥
हा देवि धर्मदग्धेव लतावस्थामिमां कथम् । गतास्यपुष्पाभरणा विशुष्काधरपल्लवा ॥
इति क्रन्दति तस्मिश्च दृढबुद्धौ प्रधाव्य सः। प्रियां सुन्दरसेनस्तां कण्ठे सरभसोऽग्रहीत् ॥
ततो विरहमालिन्यमश्रुधाराजलेन तौ। क्षालयन्ताविवान्योन्यं प्रियौ रुरुदतुश्चिरम् ॥
अथोभौ तौ समाश्वास्य विन्ध्यकेतुरुवाच तत् । वणिजं किं त्वया द्वारा विश्वस्तस्य हृता इति ॥
ततो जगाद स वणिग्भयगद्गदया गिरा । वृथा मयेदं नाशाय कृतमेषा तु रक्षिता ॥
निजेनाधर्षणीयेन महसैव मनस्विनी । वह्निज्वालेव न स्प्रष्टुमप्यसौ शकिता मया ॥
किं च नीस्वा निजं देशं शान्तमन्युः प्रसादिता । परिणेतुमभिप्रेता पापस्यादियं मम ॥
इत्युक्तवन्तमादिष्टवधं तेनात्र भूभुजा । सोऽथ सुन्दरसेनस्तं ररक्ष वणिजं वधात् ॥
प्राणाधिकं तु तत्तस्य धनोद्रेकमहारयत् । दिने दिने म्रियन्ते हि गतार्था न गतासवः ॥
एवं सुन्दरसेनेन तस्मिन्वणिजि मोचिते । प्राणलाभेन संतुष्टे यथेच्छं कृपणे गते ॥
स विन्ध्यकेतुरादाय तां मन्दारवतीं नृपः । युक्तां सुन्दरसेनेन स्खदेवीमन्दिरं ययौ ॥
तत्रादिश्य स देवीं तां स्नानवस्रानुलेपनैः । संमान्य मन्दारवतीं तद्वत्स्नातमलंकृतम् ॥
स्वयं सुन्दरसेनं तमुपवेश्य वरासने । प्राभृतैरर्चयामास मुक्तामृगमदादिभिः ॥
चक्रे तयोश्च दंपत्योः संगमाद्धृशमुत्सवम् । स राजा मुदिताशेषप्रनृत्तशबराङ्गनम् ॥
अथ सुन्दरसेनस्तमन्येद्युर्युपमभ्यधात् । रूढं ब्रॉमें सिद्धं च यथेष्टं तदितोऽधुना ॥
यामो वयं स्वनगरी ताताय प्रेषयाशु तत् । लेखहारं सवृत्तान्तं मदागमनशंसिनम् ॥
इत्युक्तो राजपुत्रेण स तेन शबरेश्वरः। तथैव दत्तसंदेशं लेखहरं विसृष्टवान् ॥
स लेखहारको यावत्तां प्राप्नोत्यळकां पुरीम् । तावत्तत्र महासेनः सदेवीकः स भूपतिः ॥
तस्य सुन्दरसेनस्य प्रवृत्त्यज्ञानदुःखितः । अग्निप्रवेशयोद्युक्तः शंकरायतनाग्रतः ॥
अभूत्किलानुशोचलिः पौरैः परिवृतोऽखिलैः॥
तं दृष्ट्वा स महासेनं नृपतिं लेखहारकः । उपाजगाम शबरो धावन्नवेदितात्मकः ॥
धूलीलितो धनुष्पाणिर्धतात्वग्बद्धमूर्धजः । श्यामः कटीनिवसनं बिल्वपत्रमयं धत् ॥
दिष्याद्य वर्धसे देव यन्मन्दारवतीयुतः । पुत्रः सुन्दरसेनस्ते निस्तीर्याम्भोधिमागतः ॥
अस्मत्प्रभोर्विन्ध्यकेतोः स हि प्राप्यान्तिकं प्रभो । तेनैव साकमागन्तुं प्रवृत्तः प्रेष्य मां पुरः॥
इत्युदीर्य च तस्यात्र राज्ञः पादान्तिके न्यधात् । लेखं स भिल्लभूपाळलेखहारो हरशुचम् ॥
तत्तो हृतैर्जनैः सर्वैः कृते कलकलरवे । लेखे च वाचिते ज्ञाते यथावृत्ते महाव्रते ॥
सत्कृत्य लेखहारं स त्यक्तशोकः कृतोत्सवः । राजधानीं महासेननृपः सर्वैः सहाविशत् ॥
उत्सुकश्च ततोऽन्येद्युः सूनोतस्यागमिष्यतः । अग्रतो भवितुं प्रायाङ्सीपेश्वरान्वितः ॥
चचाल चतुरङ्गं च बलं तस्यामितं तथा । असह्यमर्दभीतेव चकम्पे वसुधा यथा ॥
तावत्सुन्दरसनोऽपि स्वगृहाभिमुखं ततः । प्रतस्थे भिल्लपल्लीतः स मन्दारवतीसखः ॥
बन्धनागारलब्धेन तेन विक्रसशक्तिन । सख्या भीमभुजेनापि युक्तः सदृढबुद्धिकः ॥
वातरंहोहयारूढः सहितो विन्ध्यकेतुना। पुलिन्दसैन्यैः पृथिवीं तन्मयीमिव दर्शयन् ॥
गच्छन्कतिपयैरेव दिनैर्मार्गे ददर्श तम् । पितरं संमुखायातं सपरिच्छदबान्धवम् ॥
ततोऽवरुह्य तुरगासानन्दैर्वीक्षितो जनैः। उपेत्य पादयोस्तस्य सवयस्योऽपतत्पितुः ॥
सोऽपि तं पुत्रमालोक्य राकाचन्द्रमिवोदधिः। आत्मन्येव न माति स्म हर्षोल्लासतरङ्गितः ॥
दृष्ट्वा च मन्दारवतीं तां पावनतां क्षुषाम् । आत्मानं कृतिनं मेने कुछं चैव ननन्द च ॥