पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४०
[ आदितस्तरङ्गः ८९ ।
कथासरित्सागरः।

ततो मुषितचित्तः संस्तया कपटकन्यया । ययौ मन्त्रिसुतः शून्यं स्वगृहं स्खवघूसखः ॥ ६२
तत्र तन्मुखलावण्यध्यानासक्तो जगाम सः । तीव्ररागमहाव्यालदष्टो मोहमशङ्कितम् ॥ ६३
किमेतदिति संभ्रान्ते जने तत्रोत्सवोज्झिते । तमुपागाद्भुतं बुद्ध्वा स प्रज्ञासागरः पिता ॥ ६४
तेन चाश्वास्यमानोऽपि पित्रा मोहस्प्रबुध्य सः । प्रलपन्निव सोन्मादमुज्जगार मनोगतम् ॥ ६५
अस्वाधीनं च तन्मत्वा तत्पितर्युतिविह्वले । तस्मिन्राजापि तद्वद्वा तत्रैव समुपाययौ ॥ ६६
तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतो गतम् । सप्तमीं मदनावस्थां जगाद प्रकृतीर्जुषः ॥ ६७
कथं ब्राह्मणनिक्षेपः कन्यां सस्मै प्रदीयते । तया विना च नियतं पश्चिमामेत्यसैौ दशाम् ॥ ६८
अस्मिन्नष्टे पितास्यैष मम मन्त्री विनङ्क्ष्यति । एतन्नाशे' राज्यनाशस्तदिह तृत का गतिः ॥ ६९
इत्युक्तास्तेन राज्ञा ताः सर्वाः प्रकृतयोऽब्रुवन् । राज्ञो धर्म निजं प्राहुः प्रजानां धर्मरक्षणम् ॥ ७०
मूलं तस्य विदुर्मत्रं स च मत्रिष्ववस्थितः । मत्रिनाशे मूलनाशाद्रक्ष्या धर्मक्षतिध्रुवम् ॥ ७१
पापं च स्याद्विजस्यास्य ससूनोर्मत्रिणोर्वेधात् । तस्माद्रक्ष्योऽयमासनोऽवश्यं ते धर्मविप्लवः ॥ ७२
दातव्या मञ्जिपुत्राय विप्रन्यस्ता कुमारिकां । कालान्तरागते विप्रे क्रुद्ध प्रतिविधास्यते ॥ ७३
एवमुक्तः प्रकृतिभिस्तथेति प्रत्यपद्यत । स राजा मन्त्रिपुत्राय दातुं तां कूटकन्यकम् ॥ ७४
आनीतश्च स निश्चित्य लग्नं राजसुतग्रहात् । कन्यारूपो मनःस्वामी तं जगाद महीपतिम् ॥ ७५
अन्येनान्यार्थमानीतामन्यस्मै मां ददासि चेत् । कामं तदस्तु राजा त्वं धर्माधम तवाद्य तौ ॥ ७६
अहं विवाहमिच्छामि समयेनेदृशेन तु ।" एकशय्यां न नेतव्या पत्या तावदहं हठात् ॥ ७७
यावत्तीर्थानि षण्मासान्परिभ्रम्य स नागतः । एवं न कृत्तजिह्वां दन्तैर्जानीहि मां मृताम् ॥ ७८
इत्युक्ते समये तेन यूना। कन्यावपुर्धता । राज्ञा स बोधितः प्राप निधृतिं मन्त्रिपुत्रकः ॥ ७९
तथेति प्रतिपयैतत्कृत्वोद्वाहं किलाशु तम् । एकस्मिन्स्थापयित्वा च वासके ते सुरक्षिते ॥ ८०
तां मृगाङ्कवतीमद्यां वट्टे कूटबधं च ताम् । जगाम तीर्थयात्रायै मूढः कान्ताम्रियेच्छया ॥ ८१
स चोवास मनःस्वामी स्त्रीरूपोऽत्र तया सह । मृगाङ्कवत्यैकहे समानशयनासनः ॥ ८२
तथा स्थितं कदाचित्तं सा मृगाङ्कवती निशि । शय्यागृहे रहोऽवादीद्वहिःसुते परिच्छदे ॥ ८३
कथां कांचित्स्वमाख्याहि निद्रा नास्ति हि मे सखि । तच्छुत्वाकथयत्सोऽस्यै दुरूपस्तां कथां युवा ॥ ८४
यत्रेणाख्यस्य राजर्षेः सूर्यवंशभुवः पुर । प्राप्तस्य गौरीशपेन स्त्रीत्वं विश्वैकमोहनम् ॥ ८५
अन्योन्यदर्शनप्रीत्या देवोद्यानवनान्तरे । अभूदुधेन संयोगः समभूच्च पुरूरवाः ॥ ८६
तां कथां कथयित्वा च धूर्तः पुनरुवाच सः । तदेवं देवतादेशान्मौषधवशेन वा ॥ ८७
पुरुषः स्त्री कदाचित्स्यात्स्त्री वा जातु पुमान्भवेत् । भवन्ति चैवं संयोगाः कामजा महतामपि ॥ ८८
श्रुत्वैततरुणी मुग्धा विवाहप्रोषितानुका । सा मृगाङ्कवती स्माह विश्वस्ता सहवासतः ॥ ८९
श्रुत्वैतां मे कथामेतदङ्ग सिमसिमायते । हृदयं सीदतीवेदं तदेतत्सखि किं वद ॥ ९०
तच्छुत्वा सोऽङ्गनारूपो विप्रः पुनरुवाच ताम्। एतानि कामचिह्नानि नन्वपूर्वाणि ते सखि ॥ ९१
मयैतान्यनुभूतानि निग्रहे नद्याहं तव । इति तेनोदितावादीत्सा मृगाङ्कवती शनैः ॥ ९२
सखि प्राणसमा त्वं मे तत्कालज्ञा न वच्मि किम् । अपि पुंसः प्रवेशः स्यादुपायेन हि केनचित् ॥ ९३
एवमुक्तवतीमेतां स च लब्धाशयस्तदा । प्राह धूर्तपतेः शिष्यो यद्येवं तद्वदामि ते ॥ ९४
वैष्णवोऽस्ति प्रसादो मे येनाहं स्वेच्छया निशि। पुरुषः स्यां तदेषोऽद्य भवामि त्वत्कृते पुमान् ॥ ९५
इत्युक्त्वा स मनःस्वामी निष्कृष्य गुलिकां मुखात् । यौवनोममात्मानं तस्यै कान्तिमदर्शयत् ॥ ९६
ततः कथितविस्रम्भः सर्वस्वगतयत्रणः । कालोचितरसः कोऽपि तयोरासीद्रतोत्सवः ॥ ९७
अथ तत्र तया साकं स मत्रिसुतभार्यया । तस्थौ द्विजो द्वाि नारी रानौ च पुरुषो भवन्॥ ९८
प्रसन्नागमनं तं च बुवा मत्रिसुतं दिनैः । तामादाय निशि स्वैरं पलाय्य स ययौ ततः ॥ ९९
कथासंधौ मूळदेवः स तद्रुः। बुट्टा तदखिलं भूत्वा भूयो वृद्धद्विजाकृतिः ॥ १००