पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
[ आदितस्त
कथासरित्सागरः ।

सोऽपि तां पादपतितां मुनिराश्रितवत्सलः। राज्ञीं वियोगदुःखार्ता दिव्यदृष्टिरभाषत ॥

इह ते जनिता पुत्रि पुत्रो वंशधरः पितुः। भविष्यति च भर्ता ते संगमो मा शुचं कृथाः ॥

इत्युक्ता मुनिना साध्वी सा जग्राह मृगावती । आश्रमेऽवस्थितिं तस्मिन्नाशां च प्रियसंगमे ॥

ततश्व दिवसैस्तत्र श्लाघनीयमनिन्दिता । सत्संगृतिरिवाचारं पुत्ररत्नमसूत सा ॥

श्रीमानुदयनो नाम्ना राजा जातो महायशाः। भविष्यति च पुत्रोऽस्य सर्वबिद्याधराधिपः ॥

इत्यन्तरिक्षादुदभूत्तस्मिन्काले सरस्वती । आदधाना मृगावल्याश्चित्तविस्मृतमुत्सवम् ॥

क्रमादुदयनः सोऽथ बाळस्तमिस्तपोवने । अवर्धत निजैः सार्ध वयस्यैरिव सव्रणैः ॥

कृत्वा क्षत्रोचितान्सर्वान्संस्काराञ्जमदग्निना । व्यनीयत स विद्यासु धनुर्वेदे च वीर्यसाम् ॥

5ष्ट्रा च स्वकरान्माता तस्य स्नेहान्मृगावती । सहस्रानीकनामाकं चकार कटकं करे ॥

हरिणाखेटके जातु भ्राम्यनुदयनोऽथ सः । शबरेण हठन्तमटव्य सर्पदैक्षत ॥

सदयः सुन्दरे तस्मिन्सर्वे तं शबरं च सः । उवाच मुख्यतामेष सर्प सद्ववचनादिति ॥

ततः स शबरोऽवादीज्जीविकेयं मम प्रभो । कृषणोऽहं हि जीवामि भुजगं लयन्सt ॥

विपने पन्नगे पूर्व सश्रेषधिबलादयम् । वष्टब्धश्च मया लब्धश्चिन्वतैतां महाटवीम् ॥

श्रुत्वेत्युदयनस्त्यागी दत्वास्मै शबराय तम् । कटकं जननीदत्तं स तं सर्पममोचयत् ॥

गृहीतकटके याते शबरे पुरतो नतिम् । कृत्वा स भुजगः प्रीतो जगादोयनं तदा ॥

वसुनेमिरिति ख्यातो ज्येष्ठो भ्रातास्मि वासुकेः। इमां वीणां गृहाण त्वं मत्तः रक्षितात्स्वया ॥

तत्रनिर्घषरम्यां च श्रुतिभागविभाजिताम् । ताम्यूलैश्च सहाम्लानमलतिलकयुक्तिभिः ॥

तद्युक्तो जमदग्नेस्तं नागोत्क्षिप्तः स चाश्रमम् । आगादुदयनो मातुर्दशि वर्षन्निवार्युतम् ॥

अत्रान्तरे स शबरोऽप्यटवीं प्राप्य पर्यटन् । आदायोदयनाप्राप्तं कटकं तद्विधेर्वशात् ॥

बिक्रीणानश्च तत्तत्र राजनामाङ्कमपणे । वष्टभ्य राजपुरुपैर्निन्ये राजकुलं च सः ॥

कुतस्स्वयेदं कटकं संप्राप्तमिति तत्र सः । राज्ञा सहस्रानीकेन स्वयं शोकादपृच्छयत ॥

अथोद्याद्रौ सर्पस्य ग्रहणात्प्रभृति स्वकम् । कटकप्राप्तिवृत्तान्तं शचरः स जगाद तम् ॥

तद्वद् शबरादृष्ट्वा दयिताबल्यं च तम् । विचारदोलामारोहस्सहस्रानीकभूपतिः ॥।

क्षीणः शापः स ते राजन्नुदयाद्रौ च सा स्थिता । जमदश्याश्रमे जाया सपुत्रा ते मृगावती ॥

दिव्या तद वणी नन्द्यमास तं नृपम् । विप्रयोगनिदाघातै वारिधरेव बर्हिणम् ॥

अथोत्कण्ठादधे कथमपि दिनेऽस्मिन्नवसिते तमेवाग्रे कृत्वा शबयरमपरेद्युः स नृपतिः ॥

सहस्रानीकस्तां सरभसमवाप्तुं प्रियतम प्रतस्थे तसैन्यैः सममुद्यशैलाश्रमपदम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बके प्रथमस्तरङ्गः ॥

*****


द्वितीयस्तरङ्ग



गस्याथ दूरमध्वानं राजा वसतिमग्रहीत् । दिने तस्मिन्स कस्मिश्चिदरण्यसरसस्तटे ॥

शयनीयगतः आन्तस्तत्र सेवरलाशतम् । सायं संगतकं नाम जगद कथकं नृपः ॥

कथामाख्याहि मे कांचिद्धृदयस्य विनोदिनीम् । मृगावतीमुखाम्भोजदर्शनोरखवकाङ्किणः ॥

अथ संगतकोऽवादी देव किं तप्यसे वृथा । आसन्न एव देव्यास्ते क्षीणशापः समागमः ॥

संयोगा विप्रयोगाश्च भवन्ति बहवो नृणाम् । तथा चत्र कथामेकां कथयामि श्रुणु प्रभो ॥

मालवे यज्ञसोमख्यो द्विजः कश्चिदभूत्पुरा । तस्य च द्वौ सुतौ साधोर्जायेते स्म जनप्रियौ ॥

एकस्तयोरभून्नाम्ना कालनेमिरिति श्रुतः । द्वितीयश्चापि विगतभय इत्याख्ययाभवत् ॥

पितरि स्वर्गते तौ च भ्रातरौ तीर्णशैशवौ । चिद्यप्रायै प्रययतुः पुरं पाटलिपुत्रकम् ॥