पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः ।


----***----


कथामुखं नाम द्वितीयो लम्बकः।



इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलन
पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम् ।
प्रसह्य रसयन्ति ये विगतबिन्नलब्धर्डयो
धुरं दधाति चैवुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्गः ।



गैौरीनवपरिष्वङ्गं विभोः स्वेदाम्बु पातु वः । नेत्राग्निभीया कामेन वारुणास्त्रमिवाहितम् ॥ १

कैलासे धूर्जटेर्वक्त्रात्पुष्पदन्तं गणोत्तमम् । तस्माद्वररूचीभूतात्काणभूतिं च भूतले ॥ २

काणभूतेर्गुणाढ्यं च गुणाढ्यत्सातवाहनम् । यत्प्राप्तं श्रुणुतेदं तद्विद्याधरकथाहृतम्॥ ३

अस्ति वत्स इति ख्यातो देशो दर्पोपशान्तये । स्वर्गस्य निर्मितो धात्रा प्रतिमल्ल इव क्षितौ ॥ ४

कौशाम्बी नाम तत्रास्ति सध्यभागे महापुरी । लक्ष्मीविलासवसतिभूतलस्येव कर्णिका ॥ ५

तस्यां राजा शतानीकः पाण्डवान्वयसंभवः । जनमेजयपुत्रोऽभूत्पौत्रो राज्ञः परीक्षितः॥ ६

अभिमन्युप्रपौत्रश्च यस्यादिपुरुषोऽर्जुनः । त्रिपुरारिभुजस्तम्भदृष्टदोर्दण्डविक्रमः ॥ ७

कलत्रं भूरभूत्तस्य राज्ञे विष्णुमती तथा । एका रत्नानि सुषुवे न तावपरा सुतम् ॥ ८

एकदा मृगयासङ्गाङ्गम्यतश्चास्य भूपतेः । अभूच्छाण्डिल्यमुनिना समं परिचयो वने ॥ ९

सोऽस्य पुत्रार्थिनो राज्ञः कौशाम्बीमेय साधितम् । मत्रपूतं च राज्ञीं प्राश्यन्मुनिसत्तमः ॥ १०

ततस्तस्य सुतो जज्ञे सहस्रनीकसंज्ञकः। शुशुभे स पिता तेन विनयेन गुणो यथा ११

युवरा क्रमात्कृत्वा शतानीकोऽथ तं सुतम् । संभोगैरेव राजाभून्न तु भूभारचिन्तनैः ॥ १२

अथासुरैः समं युद्धं प्राप्ते साहायकेच्छया । दूतस्तस्मै विसृष्टोऽभूद्राज्ञे शक्रेण मातलिः ॥ १३

ततो युगधराख्यस्य हस्ते धूर्यस्य मन्त्रिणः । सुप्रतीकाभिधानस्य मुख्यसेनापतेश्च सः ॥ १४

समर्थ पुत्रं राज्यं च निहन्तुमसुरान्रणे । शान्तिकं शतानीकः सह मातलिना ययौ ॥ १५

असुरान्यमदंष्ट्रादीन्बृहून्पश्यति वासवे । हृत्वा तत्रैव सङ्गमे प्राप मृत्यु स भूपतिः ॥ १६

मातल्यानीतदेहं च देवी तं नृपमन्वगात् । राजलक्ष्मीश्च तत्पुत्रं सहस्रानीकमाश्रयत् ॥ १७
चित्रं तस्मिन्समारूढे पित्र्यं सिंहासनं नृपे । भरेण सर्वतो राज्ञां शिरांसि नतिमाययुः ॥ १८

ततः शक्रः सुहृत्पुत्रं विपक्षविजयोत्सवे । स्वर्ग सहस्रनीकं तं निनाय प्रेष्य मातलिम् ॥ १९

स तत्र नन्दने देवान्क्रीडतः कामिनीसखान् । दृष्ट्वा स्वोचितभार्यार्थी राजा शोकमिवाविशत् ॥ २०

विज्ञायैतमभिप्रायं तमुवाचाथ वासवः । राजन्नलं विषादेन वाञ्छेयं तच सेत्स्यति ॥ २१

उत्पन्ना हि क्षितौ भार्या तुल्या ते पूर्वनिर्मिता । इमं च मृणु वृत्तान्तमत्र ते वर्णयाम्यहम् ॥ २२

पुरा पितामहं द्रष्टुमगच्छं तत्सभामहम् । विधूमो नाम पञ्चच ममैको वसुरागमत् ॥ २३

स्थितेष्वस्मासु तत्रैव विरिथ्यं द्रष्टुमप्सराः । आगादलम्बुषा नाम वतविस्मंसितांशुका ॥ २४

तां दृढंव स कामस्य वशं वसुरुपागमत् । सायप्सरा झगित्यासीत्तदूपाकृष्टलोचना ॥ २५