पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


॥ श्रीः ॥

महाकविश्रीसोमदेवभट्टविरचितः

कथासरित्सागरः।

*****

मदनमञ्चका नाम षष्ठ लस्यकः ।

*****

इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कथामृतं हरमुखाम्बुधेरुन्नतम् ।


प्रसव रसयन्ति ये विगतविप्नलब्धज्ञेयो


धुरं दधति वैखुधीं भुवि भयप्रसादेन ते ॥


प्रथमस्तरङ्गः ।



तर्जयन्निव विनौघान्नमितोन्नमितेन यः । मुहुर्विभाति शिरसा स पायाद्वो गजाननः ॥ १

नमः कामाय यद्वाणपातैरिव निरन्तरम् । भाति कण्टकितं शंभोरप्युमालिङ्गितं वपुः ॥ २

इत्यादिदिव्यचरितं कृत्वास्मानं किलान्यवत् । प्राप्तविद्याधरैश्वर्यो यदा मूळास्वयं जगौ ॥ ३

नरवाहनदत्तोऽत्र सपत्नीकैर्महर्षिभिः। पृष्टः प्रसङ्ग कुत्रापि तदिदं यणुताधुना ॥ ४

अथ संवर्द्धमानोऽत्र पित्रा वत्सेश्वरेण सः । नरवाहनदत्तोऽभूद्युकान्ताष्टमवत्सरः ॥ ५

विनीयमानो विद्यासु क्रीडनृपवनेषु च । सह मन्त्रिसुतैरासीद्राजपुत्रस्तदा च सः ॥ ६

देवी वासवदत्ता च राघी पझावती तथा । आस्तामेकतमस्नेहात्तदेकाग्रे दिवानिशम् ॥ ७

आरोहळुणनफ्रेण रेजे सधैशजन्मना । शनैरापूर्यमाणेन वपुषा धनुषा च सः ॥ ८

पिता वसेश्वरश्चास्य विवाहादिमनोरथैः । आसन्नफलसंपत्तिकान्तैः कलं निनाय तम् ॥ ९

अत्रान्तरे कथासंधौ यद्भूतन्निशम्यताम् । आसीतक्षशिला नाम वितस्तापुलिने पुरी ॥ १०

तदम्भसि बभौ यस्याः प्रतिमा सौधसंततेः। पातालनगरीवाधस्तच्छोभालोकनागता ॥ ११

तस्यां कलिङ्गदत्ताख्यो राजा परमसौगतः । अभूतारावरस्फीतजिनभक्तताखिलप्रजाः ॥ १२

रराज सा पुरी यस्य चैत्यरत्नैर्निरन्तरैः। मतुल्या नाम नास्तीति मत्रैरिवोदितैः ॥ १३

प्रजानां न परं चक्रे यः पितेवानुपालनम् । यावद्रुरिव ज्ञानमपि स्वयमुपादिशत् ॥ १४

संथा च तस्य कोऽप्यासीन्नगर्यं सौगतो वणिकू | धनी वितस्तादत्ताख्यो भिक्षुपूजैकतत्परः ॥ १५

रत्नदत्ताभिधानश्च तस्य तनयो युव। स च तं पितरं शश्वत्पाप इत्याजुगुप्त ॥ १६

पुत्र निन्दसि कस्मान्मामिति पित्रा च तेन सः । पृच्छ्यमानो वणिक्पुत्रः सभ्यसूयमभाषत ॥ १७

तात त्यक्तत्रयीधर्मस्त्वमधर्म निषेवसे । यद्वाह्मणान्परित्यज्य श्रमणाशश्वदर्चसि ॥ १८

नानादियञ्जणाहीनाः स्वकालशनलोडुपाः । अपास्तसशिखाशेषकेशकौपीनसुस्थिताः ॥ १९

बिदरास्पदलाभाय सर्वेऽभ्यधमजातयः । यमाश्रयान्ति किं तेनं सौगतेन नयेन ते ॥ २०

तच्छुत्वा स वणिक्प्राह न धर्मस्यैकरूपता । अन्यो लोकोतरः पुत्र धर्मोऽन्यः सार्वलौकिकः ॥ २१

ब्राह्मण्यमपि तत्प्राहुर्यद्रागादिविवर्जनम् । सत्यं दया च भूतेषु न मृषा जातिविग्रहः ॥ २२

किं च दर्शनमेतत्त्वं सर्वसत्त्वाभयप्रदम् । प्रायः पुरुषदोषेण न दूषयितुमर्हसि ॥ २३

उपकारस्य धर्मत्वे विवादो नास्ति कस्यचित् । भूतेष्वभयदानेन नान्या चोपकृतिर्मम ॥ २४

तदहिंसाप्रधानेऽस्मिन्वन्स मोक्षप्रदायिनि । दर्शनेऽतिरतिश्चेन्मे तद्धर्मो ममत्र कः॥ २५