पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

प्रेष्ठ ! प्रियतम, स्वस्मादन्येनैव गुरुणा उपदिष्टैव मतिः मोक्षसाधनज्ञानाय भवति । का पुनस्सा मतिरित्यत्राह-यां त्वमाप इति । यां मतिं त्वमापः-प्राप्तवानसि सिषा धयिषिततया निश्चितवानित्यर्थः । सत्यधृतिरसि । सत्या अप्रकम्प्या धृतिर्यस्य स तथोक्तः । वतेत्यनुकम्पायाम् । त्वादृगिति । त्वादृशशिष्यः अस्माकं भूया दित्यर्थः । ९ ।।

जानाम्यह४शेवधिरित्यनित्यं नह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतचितोऽग्रिः अनित्यैर्दिव्यैः प्राप्तवानसि

नित्यम् ॥ १० ॥

पुनरपि तुष्ट आह-जानाम्यहमिति। शेवधिः निधिः,कुबेराचैश्वर्य। एवञ्जातीयकं कर्मफलक्षणमनित्यमिति जानामि । नह्यधुवैरिति । ध्रुवं तत् आत्मतत्त्वं अधुवै: अनित्यफलसाधनभूतैः नित्यद्रव्यसाध्यैर्वा कर्मभिरित्यर्थः मयेति । एवं । तत ज्ञातवता मया ब्रह्माप्राप्तिसाधनज्ञानोद्देशेन अनियैरिष्टकादिद्रयैर्नाचिकतोनिश्चितः । तस्माद्धेतोर्नित्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यर्थः । अतः ब्रह्मप्राप्तज्ञानैकसाध्यत्वस्य न विरोधः ।। १० ।।

कामस्याप्ति जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम् ।

स्तोमं महदुरुगायं प्रतिष्ठां दृष्टा धृत्या धीरो नचिकेतोऽत्य

स्राक्षीः ।। ११ ।।

  • त्वादृङ्नो भूयान्नचिकेतः प्रष्ट' ति पूर्वमन्त्रोक्तं नचिकेतसः श्रवणाधिकारं विवृ

णोति-कामस्याप्तिमिति। क्रतोः-कर्मण: प्रतिष्ठां फलभूतां, जगतः कामस्याप्ति चतुर्मुखस्थानपर्यन्तसर्वलोकसंबन्धिस्यादिविषयात्मककामप्रातिं च दृष्टा । मोक्ष स्वरूपमाह - आनन्त्यमभयस्य पारमेित्यादिन | । अविनाशित्वमत्यन्तनिर्भयत्व मपहतपाप्मत्वसत्यसङ्कल्पवादिमहागुणगणरूपतोमं उरुकीनिं च स्थैर्य च मोक्षगतं दृष्ट। लैौकिकान् कामान् प्रज्ञाशालेित्वात् त्यक्तवानसीत्यर्थ । यद्वा मोक्षरूपपरमात्म स्वरूप एव सर्वकामावासेिं तत्रैव सकलजगदाधारत्वं क्रतोरनन्तफलरूपताभ्चेत्येवं सर्वे परमात्मविषयतथा योजनीयम् ॥ ११ ॥