पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
१९
कठोपनिषत्

॥ अथ द्वितीयवल्ली ॥

हरिः ओं ॥

अन्यच्छेयोऽन्यदुतैव प्रेयः ते उभे नानार्थे पुरुषसिनी

तः । तयोश्श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य

उप्रेयो वृणीते ॥ १ ॥

एवं शिष्यं परीक्ष्य तस्य मुमुक्षास्थैर्ये निश्चित्य तस्योपदेशयोग्यतां मन्वानः मुमुक्षां सौति--अन्यछेय इति । अतिप्रशस्तं मोक्षवत्र्माप्यन्यत् । प्रियवास्पदं भोगक्र्मा प्यन्यत्। ते–श्रेयःप्रेयसी परस्परविलक्षणप्रयोजने सती पुरुषं सिनीतः–बध्नीतः । पुरुषं स्ववशतामापादयत इत्यर्थः । तयोरिति । तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु-भद्र-भवति । यस्तु प्रेयो वृणीते स पुरुषार्थाद्भ्रष्टो भवति । उ इत्यवधारणे ॥ १ ॥

श्रेयश्च प्रेयश्च मनुष्यमेतः तौ संपरीत्य विविनक्ति धीरः ।

श्रेयो हि धीरोऽभिप्रेयसो वृणीते श्रेयो मन्दो योगक्षेमादृणीते।। २ ।।

श्रेयश्च प्रेयथेति । श्रेयश्च प्रेयश्च मनुष्यमेतः. मनुष्यं प्राप्तः । तैौ श्रेयः प्रेयःपदार्थों सम्यगालोच्य नीरक्षरे हंस इव पृथकरोति । विया रमत इति धीरः प्रज्ञाशाली, प्रेयोपेक्षया अभि-अभ्यर्हितं श्रेय एव वृणीते । मन्दमतिः योग क्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः, क्षेमः परिपालनम् ॥ २ ॥

व्स त्वं प्रियाप्रियरूपाश्च कामान् अभिध्यायन्नचिकेतोऽत्य

स्राक्षीः । नैतासृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति

बहवो मनुष्याः ।। ३ ।।

स त्वं प्रियानेिति। तादृशस्वं स्वतो रूफ्तश्च प्रियान् काम्यमानान् स्यादीनि त्यर्थः। दुःखोदर्कत्वदुःखमिश्रत्वादिदोषयुक्ततया निरूपयन् त्यक्तवानसीत्यर्थः । नैताँ

भृङ्गामिति । वित्तमयीं , धनमायां सृङ्कां कुत्सितगतिं मूढजनसेति एतां