पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मानामुपभोगेन शाम्यति ? इति न्यायादिति भावः । किञ्च, लप्स्यामहे वित्तमिति। स्वां वयं दृष्टवन्तश्चेत् वितं प्राप्स्यामहे(मः) । त्वद्दर्शनमस्ति चेत् वित्तलाभे को भार इति भावः । तर्हि चिरजीविका प्रार्थनीयेत्यत्राह- जीविष्यामो यावदिति । याक्त्कालं याम्ये पदे त्वमीश्वरतया बर्तसे । व्यत्ययेन परस्मैपदम्। तावत्पर्यन्तमस्मा कमपि जीवनं सिद्धमेव । नहि त्वदाज्ञातिलछनेन अस्मज्जीवितान्तकरःकश्चिदति । बरलाभालाभयोरपि तावदेव जीवनमिति भावः । अतः 'येयं प्रेत’ इति प्राकृप्रस्तुतो बर एव वरणीय इत्यर्थः ॥ २८ ॥

अजीर्यताममृतानामुपेत्य जीर्यन्मत्यैः कृ तदास्थःप्रजानन् ।

अभिध्यायन् वर्णरतिप्रमोदाननतिदीधे जीविते को रमेत॥२९॥

अजीर्यतामिति । जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा प्रजानन् विवेकी जरामरणोपछुतोऽयं जनः तदास्यः जरामरणाद्युपश्रुताप्सरःप्रभृतिविषयविषयका स्थावान्, --कथं भवेदित्यर्थः । अभिध्यायन्निति । वर्णाः आदित्यवर्णत्वादि रूपविशेषाः, रतिप्रमोदाः ब्रह्मभोगादिजनितानन्दविशेषा:, तान् सर्वान् । अभि ध्यायन् निपुणतया निरूपयन् । अत्यल्पे ऐहिके जीविते कः प्रीतिमान् स्या दित्यर्थः ।२९ ॥

यस्मिमिदं विचिकेित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि

नस्तत्। योयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता

वृणीते ।। ३० ।।

।। इति प्रथमवली ।

यस्मिमिति। महति पारलौकिके यस्मिन् मुक्तात्मस्वरूपे संशेरते, तदेवमे ब्रूहि। योयमिति । गूढं आत्मतत्त्वमनुप्रविष्टः योयं वरः तस्मादन्यं नचिकेता न वृणीतेम इति श्रुतेर्वचनम् ॥ ३० ॥

॥ इति प्रमभकीव्याख्या ।