पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
प्रथम
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

मध्ये फ्तयालवे नोपदेष्टव्यमितिभत्वाऽऽह--देवैरत्रापीति। बहुदर्शिभिरपि देवैरमिन् मुक्तात्मस्वरूपे विचिकित्सितम्--संशयितम्। नहीति। आत्मतत्त्वं न युज्ञानमिति सूक्ष्मो(एष) धर्मः । सामान्यतो धर्म एव दुर्जनः । तत्राप्ययं दुर्शन इति भावः । अन्यं वरमिति । स्पष्टोर्थः । मामोपरोत्सीरितेि । भामा इति निषेधे वीप्सायां द्विर्वचनम् । उपरोधं माकार्ष: । एनं मां अतिसृज । मुञ्च ॥ २२ ॥

देवैरत्रापि विचिकित्सितं किल त्वंच मृत्यो यन्न सुविज्ञेयमात्थ ।

वक्ता चास्य त्वादृगन्यो न लभ्यः नान्यो वरस्तुल्य एतस्य

कवित् ।। २३ ।।

एवमुक्तो नचिकेता आह-देवैरत्रापि विचिकित्सितं किलेति । स्पष्टीर्थः । त्वचेति । त्वं च मृत्यो न सुझेयमिति यदात्मस्वरूपमुक्तवान् । वतेति। त्वादृकू-त्वादृश इत्यर्थः । अन्यत् स्पष्टम् ।। २३ ॥

शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।

भूमेर्महदायतनं वृणीष्व खयं च जीव शरदो याव

दिच्छसेि ।। २४ ।।

एव नाचकतसाक्का मृत्युः विषयस्य दुराधगमतया मध्य न त्यक्ष्यतात निश्चित्य सत्यपि ग्रहणसामथ्र्ये विषयान्तरासक्तचेतसे एतादृशं मुक्तात्मतत्त्वं नोपदेशार्हमिति मत्वा मुमुक्षास्थैर्यानुवृत्यर्थं प्रलोभयन्नुवाच–शतायुष इति । स्पष्टोर्थः । भूमेरिति । पृथिव्याः विस्तीर्ण आयतनं मण्डलं राज्यं वृणीष्व । अथवा भूमेस्संबन्धि महदायतनं विचित्रशालाप्रासादादियुतं गृहं वृणीष्व ! स्वयश्चेति । यावद्वर्षाणि जीवितुमिच्छसि तावज्जीवेत्यर्थः ।। २४ ॥

एतत्तुझ्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।

महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि।॥२५॥

एतसुल्यमिति । उतेन वरेण सदृशमन्यमपि वरं मन्यसे चेत् तदपि (म) गीप् । प्रभूतं हिरण्यस्खादिकं चिरं जीवनं चेत्यर्थः । एचि भव । सजेति शेषः ।