पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
१५
कठोपनिषत्

विविधभोगवितरणप्रलोभनपरीक्षाया असंभवादिति द्रष्टव्यम् । नचिकेतसोड्यमभि प्राय:– हितैषिवचनादात्मा परित्यक्तचरमदेह आविर्भूतापहतपाप्मत्वादिगुणाष्टको भवतीत्युश्रुत्य 'स्वर्गे लोके न भयं किंचनास्ती ' त्यादिना मन्त्रद्वयेन मोक्षसाधन भूतामिप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषये सन्देहो जायते । अयं 'स्वर्गे लोके न भयं किंचनास्ती ' त्यादिना मयोपन्थस्तापहृतपाप्मत्वादिविशिष्टरूप आत्मा अस्तीत्येके नायमस्तीत्यपरे, त्वया उपदिष्ट एतज्जानीया ' मिति । अत एव प्रति वचने 'एतच्छूत्वा संप्रतिगृह्य मत्थैः प्रवृद्या धम्र्यमणुमेतमाप्य, स मोदते मोदनीयं हि लब्ध्वे ति एतत्प्रक्षानुगुण्यमेव दृश्यते । अतः यथोक्त एवार्थः । केचितु

  • पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति सूत्रे तिरोहितमिति निष्ठान्त

पदे उपसर्जनतया निर्दिष्टस्य तिरोधानस्य ‘देहयोगाद्वा सोपि इति तदुत्तरसूत्रे सोपि तिरोधानभावोपीति पुलङ्गतच्छब्देन परामर्शदर्शनात् 'सर्वनान्नाऽनुसन्धिवृछिन्न स्येति वामनसूत्रे कृतद्वितादिवृत्तिभ्यक्भूतस्यापि सर्वनाझा परामर्शस्याङ्गीकृतत्वात् । येयं प्रेत इति निष्ठान्तप्रेतशब्दे उपसर्जनतया निर्दिष्टस्यापि प्रायणशब्दितमोक्षस्य 'देह योगाद्वा सोपी ? तिवत् ' नायमस्तीति चैके ? इत्यत्र अयमिति पदेन परामशों ऽस्तु । नचैवं भुक्तवत्यस्मिन् भोजनमस्ति वा नवेति वाक्यवत् मुक्तेऽस्मिन् मोक्षोऽस्ति न वेति सन्देहकथनं व्याहृतार्थमिति वाच्यम् । मोक्षसामान्यमभ्युपेत्य मोक्षविशेष सन्देहस्योपपादयितुं शक्धत्वात् । अयमित्यनेन विशेषपरामर्शसंभवात् । ननु न प्रायणशब्दस्य मोक्षवाचित्वं कचिद्दष्टम् । शरीरवियोगवाचित्वात् । श्रुतप्रकाशिकायां शरीरवियोगबाचित्वमभ्युपेत्यैव चरमशरीरवियोगपरतया व्याख्यातत्वादितिचेत् अस्त्वेवम् । तथाप्यमित्यनेन चरमशरीरवियोगपरामर्शसंभवात् तद्विषयिण्येव विचिकित्सां अस्तु । ननु तस्य निश्चितत्वात् तद्विषयिणी विचिकित्सा नोपपद्यत इति चेत्सत्यम् । अयं चरमशरीरवियोगः ब्रह्मरूपाविर्भावपूर्वभावेित्वेन रूपेणास्ति न वेति विचिकित्सायास्सूपपादत्वादिति वदन्ति । २१ ।।

देवैरस्त्रापि विचिकित्सितं पुरा न हेि सुविज्ञेयमणुरेष धर्मः ।

अन्यं वरं नचिकेतो वृणीष्व मामोपरोत्सीरतिमा सृजैनम् ॥२२॥

एवं मुक्तस्वरूपं पृष्टो मृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुमप्रमक्ते