पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
तृतीयोऽङ्कः ।

 तमसा---अहो संविधानकम् ।

  एको रसः करुण एव निमित्तभेदा-
   द्भिन्नः पृथक्पृथगिव श्रयते विवर्तान् ।
  आवर्तबुहुदतरङ्गमयान्विकारा-
   नम्भो यथा सलिलमेव हि तत्समस्तम् ॥ ४७॥

 राम:-विमानराज, इत इतः ॥

(सर्वे रत्तिष्ठन्ति ।)


अहो संविधानकमिति । अपूर्वरूपक्रनिर्माणं विस्मयनीयमित्यर्थः । एक इति । रस्यते खाद्यत इति रसः काव्यानुशीलिनाभ्यासवशविशदीभूतवर्णनीयतन्मयीभवनयोग्यसामाजिकमनोमुकुरभाव्यमानतया निर्भरानन्दसंविद्रूपः । करुणः इष्टजनषियोगजन्यदुःखातिशयः । एक एव सत्रपि निमित्तभेदात् व्यञ्जकविभावादिविच्छित्तिविशेषाद्भिन्नः विलक्षणः । पृथक्पृथग्विवर्तान् परस्परविलक्षणशृक्षाराद्यात्मना परिणामान् । 'व्यत्यस्तपरिणामः स्याद्विवर्तः' इति कपिल' । श्रयते भजते । एकस्यानेकचा विकारमाने दृष्टान्तमाह--आवर्तेति । आवर्तः जलस्य भ्रमः, बुद्धदः कुमलाकारजलसंस्थानविशेषः, तरङ्गः भङ्गः, एतद्रूपान्विकारान् । अवस्थान्तराणीत्यर्थः । तत्समस्तमावादिकं सर्वे सलिलमेव जलमेव । तरङ्गादीनां जलविवर्तत्वाभावाद्विकारमाने दृष्टान्तार्थमिदम् । अत एव विवर्तानित्युक्तिः । इदमत्र कवेर्मतम्--'यद्यपि शृङ्गार एक एवं रस इति शङ्कारप्रकाशकारादिमतम्, तथापि प्राचुर्याद्रागिविरागिसाधारण्यात्करुण एक एव रसः। अन्ये तु तद्विकृतयः' इति । करुणस्यानुकाय रामादौ दुःखरूपत्वेऽपि सहृदयमानन्दात्मना परिणमतीत्युक्तरीत्या सामाजिके आनन्दरूपत्यमेव । तहि भावकानां करुणात्मककाव्यश्रवणे अश्रुधाराविर्भावः कथमिति चेदत्राहुः-संभोगसमये स्त्रीणामधरदशनादौ कृत्रिमदुःखानुभवसीत्कारवदत्राप्युपपत्तिः । सुखेऽपि दुःखवदुपचारः कुट्टमिति तल्लक्षणात्। यद्यस्य सहजदु:खात्मकत्वं स्यात्, न कोऽपि सामाजिकस्तत्र प्रवर्तेत, ततश्च करुणैकरसाना रामावणादीनामुच्छेदप्रसङ्गः स्यात् । तस्माइसान्तरवरकरुणस्याप्यानन्दात्मकत्वमेवेति । एवं च रसान्तरापेक्षया प्रकृतित्वमेव करुणस्य प्राधान्ये विनिगमकं शृङ्गारवीरयोः प्रायिकत्वोक्तेस्तदभावे अस्ौयोचितत्वादिति । यद्वा एको रसः रसशब्दवाच्यः । अत्र ओदनं पचति' 'अस्य सूत्रस्य पटो वातव्यः' इत्यादाविव भाविनी वृत्तिमाश्रित्य रसशब्दप्रयोगः । एवम् 'पुटपाकप्रतीकाशो रामस्य करुणो रसः' इत्यत्रापि वोध्यम् । करुणः अनुकार्यरामादिगतेष्टजनवियोगजन्यदुःखातिशयः । एक एव सन्नपि निमित्तभेदात्सखित्वपतित्वपत्नीत्वायुराधिभेदाद्भिन्नः विलक्षण इच पृथक्पृथग्विवर्तान श्रयते । वासन्तीसीतारामप्रभृतिषु परस्परविलक्षणावस्थाविशेषान्भजति । अत्र विवर्तशब्दो बिकारमात्रपरः । एवं दृष्टान्तसामञ्जस्यमुपपद्यते । शेषं पूर्ववत् । अस्मिन् पक्षे रतान्तरसत्वे करुणरसप्राधान्यं तूक्तयुक्त्या ग्रन्थावहिः समर्थनीयम् । तथाचैता दृशकरुणरसप्रधानत्वादपूर्वोऽयं कथासंनिवेश इति पूर्वेणान्वयः ॥ ४५ ॥ तमसा