पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
उत्तररामचरिते

 तमसा-वत्से, एहि गच्छावः ।

 सीता---एवं करम्ह ।

 तमसा-कथं वा गम्यते । यस्यास्तव

  प्रत्युतस्येव दयिते तृष्णादीर्घस्य चक्षुषः ।
  मर्मच्छेदोपमैर्यनः संनिकर्षो निरुध्यते ॥ ४६॥

 सीता-णमो सुकिदपुण्णजणदंसणिज्जाणं अज्जउत्तचलणकमलाणम् ।

(इति मूर्च्छति।)

 तमसा-वत्से, समाश्वसिहि ।

 सीता--(आश्वस्य ।) कच्चिर वा मेहान्तरेण पुण्णचन्ददसणम् ।


 १. एवं करिष्याकः ।

 २. नमः सुकृतपुण्यजनदर्शनीयाभ्यामार्थपुत्रचरणकमलाभ्याम् ।

 ३. कियचिरं वा मेधान्तरेण पूर्णचन्द्रदर्शनम् ।


एव कुर्वः । गच्छाव इत्यर्थः ॥ यस्यास्तव । प्रत्युत्तस्यवेति । तृष्णया अवलोकनस्पृहया दीर्घस्य आयतस्य । दयिते रामे प्रत्युत्तस्येव स्थितस्य कीलितस्येव स्थितस्य यस्यास्तव चक्षुषो नेत्रस्य संनिकर्षः दयिते संवन्धः । मर्मच्छेदोपमैहृदयादिप्रदेशकृन्तनसदृशैर्यन्नैर्निरुद्धयते निकलते । तथाविधया त्वया कथं गम्यत इति पूर्वशान्वयः । तृष्णादीर्घस्येत्युक्त्या दयिते प्रत्युप्तस्यैवेति दयितपदविवक्षितरामस्थामृतसादृश्य व्यज्यते ॥ ४६ ॥ नम इति । प्राकृते चतुर्थास्थाने षष्ठीद्विवचनस्य बहुवचनत्वम् । सुकृतानि पुण्यानि यैस्ते सुकृतपुण्याः । सुकृतपुण्याश्च ते जनाश्चेति विप्रहे कर्मधारयः। तथाविधैः दर्शनीयास्यां सेवितुं शक्याभ्याम् । न तु मादृशपापकृजनदर्शनाहोम्यामित्यर्थः । 'न ते मनुष्या देवास्ते थे चारुशभकुण्डलम्' इत्यादि दशरथोतरीत्या पुण्यकृद्दर्शनीयत्वं रामचरणयोरिति भावः । ममैव दुष्कृत किचिन्नहदस्ति न संशयः' इत्युक्तरीत्या खस्याः पापकृत्वमिति तात्पर्यम् । अत्र सुटु कृत यैस्ते सुकृताः । तथाविधाश्च ते पुण्यजना राक्षसाश्चेति ते विभीषणादयः इति कश्चित् । उक्तरील्याश्रयणे कृतस्यापि संग्रह इति धिकू । इति मूच्छति मूछामभिनयति ॥ कियचिरं मेधान्तरेण पूर्णचन्द्रदर्शनं मेघमध्ये पूर्णचन्द्रदर्शनम् ॥ वीरश्कारपोरेकः प्रधानं यत्र वयते' इत्यौत्सर्गिकस्य शृङ्गारवीरान्यतरप्राधान्यख वीरगृजारौ प्रायिकाविलपनादेऽपि करुणरसप्राधान्यकरणे मानाभावः । रसान्त राणां सत्वात् । नपत्र विनिगमकमस्ति येन करुणरसस्य प्राधान्यमुपपद्यते । किच करुणस्य दुःखात्मत्वेन रसत्वं नास्ति । येन रसप्रधाननाटके तस्मोक्तिसंभवः स्यादिति शहां कविस्तमसावाक्यच्याजेल परिहरति ॥