सीता-बहुमाणिदम्हि पुत्रविरहे ।
रामः-सखि वासन्ति, दुःखायैव सुहृदामिदानी रामदर्शनम् । कियचिरं त्वां रोदयिष्यामि । तदनुजानीहि मां गमनाय ।
सीता--(सोद्वेगमोह तमसामाश्लिष्य ।) ही भअवदि तमसे, गच्छदि दाणिं अजउत्तो। किं करिस्सम् । (इति मूर्च्छति ।)
तमसा-वत्सें जानकि, समाश्वसिहि समाश्वसिहि । विधिस्तवानुकूलो भविष्यति । तदायुप्मतोः कुशलवयोवर्द्धिमङ्गलानि संपादयितुं भागीरथीपदान्तिकमेव गच्छावः ॥
सीता--भअवदि, पसीद । खणमेत्तं वि दुल्लहदसणं पेक्खामि ।
रामः-अस्ति चेदानीमश्वमेधसहधर्मचारिणी मे ।
सीता--(साक्षेपम् । अजउत्त, का।
वासन्ती--परिणीतमपि किम् ।
राम:-नहि नहि । हिरण्मयी सीताप्रतिकृतिः ।
१. बहुमानितास्मि पूर्वविरहे।
२. हा भगवति तमसे, गच्छतीदानीमार्यपुत्रः । किं करोमि ।
३. भगवति, प्रसीद । क्षणमात्रमपि दुर्लभदर्शनं पश्यामि ।
४. आर्यपुत्र, का।
|
मसि भवसि॥४५ ॥सुहृदां मित्राणां रामदर्शनं दु.खाचैव दु खफलदमेव । रोदयिध्यामि रुदन्तीं करोमि । अनुजानीहि अनुमति कुरु ॥ वर्षमिङ्गलानि द्वादशवर्षपूर्तिमालानि देवतापूजादीनि शुभानि । आयुष्मतोः कुशलवयोः कुशलवोद्देशेन संपादयितुमुत्पादयितुम् । भागीरथ्याः संबन्धद्योतनायेचमुक्तिः ॥ अश्वमेवस्य सहधर्मचारिणीति विग्रहः । दम्पत्योः सहाधिकारत्वात् । अश्वमेघनिरूपितकर्तृकत्यवती जायास्तीति भावः ॥ साक्षेपम् । आक्षेपश्चोदन तेन सह वर्तत इत्यर्थ. । क्रियाविशेषणम् । आर्यपुत्र का । सहधर्मचारिणीति शेषः ॥ परिणीतमपि । भावे । परिणयोऽपि किमिति काक्वा योजनीयम् । सीतापरित्यागानन्तरं न केवल शरीरधारणं कितु परिणयोऽपि जातः किमिति समुवयार्थः । सीतावियोगे रामस्य शरीरधारणमाश्चर्य भिति प्रसिद्धम् । तदुक्त हनूमता 'दुष्करं कृतवान्रामो हीनो यदनया प्रभुः। धारयत्वात्मनो देह न शोकेनावसीदति ।' इति, 'दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् । विना सीतां महाबाहुर्मुहूर्तमपि जीवति ॥ इति च ॥ नहि नहि । परिणवप्रसक्तिरप्यनिष्टेति द्विरुक्या व्यज्यते ॥ इदाभीमसि त्वम् । 'खापहेतुरनुपाथितोऽन्यया' इत्युक्तरीत्या एकदारवतत्वं तवेदानीमेव