पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
उत्तररामचरिते

  यं ब्रह्माणमियं देवी वाग्वश्यैवान्ववर्तत ॥
  उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥ २ ॥

एषोऽसि कविवशादायोध्यकस्तदानींतनश्च संवृत्तः । (समन्तादवलोक्य ।)


ख्यापयामासेति कथानानुसंधेचा । एवमन्यत्रापि कवितानुसारेण तत्तन्नामधेयम् । यथा--रत्नखेटका, कोटिसारः, इति । उदयरक्त चन्द्रबिम्ब रतिपतिरत्नखेटकत्वेनो. प्रेक्षितवानिवैतिह्यस्य, कामिनीस्तनमण्डलं प्रति 'कुलाचलेन्द्रादपि कोटिसारः' इत्युक्तवानित्यैतिद्यस्य च तन्मूलत्वात् । किचास्मै कवये ईश्वर एव भिक्षुरूपेणागत्य भूति दत्तवानिति बदन्ति । एव च भवाद्भगवतो भूतिर्यस्येति भवभूतिरित्यन्वयं इलाहुः । यमिति । ब्रह्माणम् । यजनादिषट्कर्मनिरतमित्यर्थः । लाक्षणिकोऽयं मुख्यार्थपरत्वे प्रयोजनाभावात् । तथाविध यं भवभूतिमिय देवताप्रसादादिना साध्यत्वेन प्रसिद्धा वाग्देवी वश्या सत्येव विधिप्रतिषेधाही सत्येवान्ववर्ततानुवर्तितवती । यद्वा ब्रह्माण यमेव वश्या सत्यन्ववर्तत । नत्वन्यमित्यर्थः । पूर्वस्मिन्नर्थे वयैवान्ववर्तत नववश्यान्ववर्तत। अलाभेन कालिदासादिषु खयमवश्यैव कालिदासप्रमृत्खनुरोधेनागताया वाग्देव्या पदनुवर्तन तन्यावर्तते । अत्र 'यं ब्रह्माणमियं देवी वाग्वश्येबान्ववर्तत' इति द्वितीयान्तब्रह्मशब्देन इवशब्देन च युक्त पान्तरमपि वचिदृश्यते । तत्रायमर्थः--इयं वाग्देवी यं भवभूति ब्रह्माणमिव स्वभारं चतुर्मुखमिव वक्ष्या सत्यन्ववर्ततानुवर्तितवती । देवस्य स्त्री देवी । दीव्यति प्रकाशयति प्रकाशते इति वा देवी । 'देवद' इति टित्त्वात् डीप् । यद्वा-च देवी बादशमवभूतिविषत्रकेच्छावती सती इय वाग्देवी ब्रह्माण वश्येवान्ववर्तत । वश्यानुवर्तगाभिनयमानं खभतारे, भावबन्धस्तु भवभूतावेवेति भावः । 'सावित्र्या. प्रथम यमुज्ज्वलगुणं वत्रे स्वयम्' इतिवत्स्वयंवरं कृतवतीत्यर्थः । दिबुधातोः 'कान्तिगतिषु' इत्युक्तेः इच्छायां वृत्तिः दीव्यति कामयत इति देवीति कृदन्तदेवीपदचोगेऽपि । 'तदहम् इति ज्ञापकात् । 'धयरामोदमुत्तमम् इति प्रयोगात्र कुद्योगषष्ट्या अनित्यत्वात् षष्ट्या अप्राप्त्या द्वितीया उत्तमपरिमलकर्मकपानकर्तरि तदा षष्ठीप्रसज्ञात् । परंत्वन पाठे व्यवहितान्वयो दोष इत्याहुः । 'उत्तर रामचरित बत्प्रणीतं प्रयोक्ष्यते' इति यच्छब्दपाठ इति मत्वा यं वाग्देव्यन्यवतेत । यत्प्रणीतं प्रयोक्ष्यतेऽभिनेष्यते स भवभूतिर्नास ायः अस्तीति पूर्वेणान्वयः । यत्तदोनियसंबन्धात्स इत्यस्य लाभः इति केचित् । परे तु तत्प्रणीतम्' इति तच्छब्दयुक्तमेव पाठमुपष्टभ्य इयं वाग्देवी यं भवभूतिमन्ववर्तत स भवभूति म कविरस्ति । तत्प्रणीतं उत्तरं रामचरित प्रचोक्ष्यत इत्यन्वयः ! अन्यथा विधेयस्य स्फुटप्रतीत्यनापत्तेश्च'. इति वदन्ति । इय प्ररोचना प्रस्तुता । तदुक्तम्-'निवेदन प्रयोज्यस्य निर्देशो देशकालयोः । कविकाव्यनदादीनो प्रशसा तु प्ररोचना ॥' इति ॥ २॥ एषोऽस्मीति । कविवशात्कम्पनुरोधेनायोध्यकः । अयोध्यासंबन्धिक इयर्थः । “धन्वयोपधा' इति सूत्रेण बुञ् । तस्याकादेशश्च । तदानींतनश्च रामपद्यभिषेककालीनश्च संवृत्तोऽस्मीति योजना । निष्पन्नोऽस्मीत्यर्थः । अयमाशयः यद्यपि भोजराजमतरीत्या सूत्रधारनटीप्रभृतिभिः प्रकृतदेशकालावलम्बिनी प्रस्तावनामुक्त्वा