पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
उत्तररामचरिते

इणीए दीसन्तं वि सव्वं एव्व एदं णस्थि । ईरिसो जीवलोअस्स परिणामो संवुत्तो।

 वासन्ती-सखि सीते, कथं न पश्यसि रामभद्रस्यावस्थाम् ।

  नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं
   सततमपि नः स्वैच्छादृश्यो नयो नव एव सः ।
  विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
   कथमपि स इत्युत्नेतव्यस्तथापि शोः प्रियः ॥ २२ ॥

 सीता-सहि, पेक्खामि ।

 तमसा-पश्य प्रियं भूयः ।

 सीता-हा देव्व, एसो मए विणा अहंवि एदेण विणेत्ति केण संभाविदं आसि । ता मुहुत्तमेत्तं जम्मन्तरादोषि दुल्लहलद्धदंसणं बाहसलिजन्तरेषु पेक्खामि दाव बच्चलं अजउत्तम् । (इति पश्यन्ती स्थिता ।)

 तमसा - (परिष्वज्य सास्त्रम् ।)

  विलुलितमतिपूरैर्बाष्पमानन्दशोक-
   प्रभवमवसृजन्ती पक्ष्मलोत्तानदीर्घा ।
  रूपयति हृदयेशं खेहनिष्यन्दिनी ते
   धवलमधुरमुग्या दुग्धकुल्येव दृष्टिः ॥ २३ ॥


मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमषि सर्वमेवैतन्नास्ति। ईदृशो जीवलोकख परिणामः संवृत्तः ।

 १. सखि पश्यामि ।

 २. हा दैव, एष मया विना अहमप्यतेन विनति केन संभावितमासीत् । तन्मुहूर्तमा जन्मान्तरादपि दुर्लभलब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि सावद्वत्सलमार्यपुतम् ।


प्राप्नोति । तत्लादेष देव्याः स्मरति । सीता मरतीत्यर्थः ॥ २० ॥ २१ ॥ नवेति । विकलकरणः शून्यचक्षुरादिकरणः शुचा दु:खेन परिदुर्बल: खधारणेऽग्यसमर्थः । बल हि धारणसामर्थ्यम् । उन्नेतव्यः अनुमेयः । तथापि दृशोः प्रियः । अनुपहतलावण्यकलादिति भावः ॥२२॥ हा इति। केन संभावितमासीत् केन हेतुना संभावित उत्पादितम् । स्वयेति शेषः । दुर्लभलब्धदर्शनं यहच्छयालन्धदर्शनमिति व्याख्यातारः ॥ चिलुलितमिति । 'विलठितम्' इति पाठान्तरम् । अतिपूरैःअतिशयितस्रोतोभिः विललितं विकीर्ण आनन्दशोकप्रभव आनन्दशोकहेतुकं बाप्पं अश्रु अवसृजन्ती उत्पादयन्ती । पश्मला च