हन्त, तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते । रामः -
कतिपयकुसुमोद्गमः कदम्बः
प्रियतमया परिवर्धितोऽयमासीत् ।
सीता--(सास्त्रम् ।) सुड्ड पञ्चहिजाणिदं अजउत्तेण । रामः
स्मरति गिरिमयूर एष देव्याः
खजन इवात्र यतः प्रमोदमेति ॥ २० ॥
बासन्ती--अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् ।
(राम उपविशति ।)
वासन्ती-
नीरन्ध्रबालकदलीवनमध्यवर्ति
कान्तासखस्य शयनीयशिलातलं ते।
अत्र स्थिता तृणमदाद्वनगोचरेभ्यः
सीता ततो हरिणकै विमुच्यते स्म ॥२१॥
राम:-इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुद्रुपविशति ।)
सीता--सैहि वासन्ति, किं तुए किदं अज्जउत्तस्स मह अ एवं दंसअन्तीए। हद्धी हद्धी। सो एव्व अजउत्तो । तं एव्व पञ्चवडीवणम् । सा एव्व पिअसही बासन्दिआ। दे एव्व विविहविस्सम्भसक्खिणो गोदावरीकाणणुहेसा दे एव्व जादणिव्विसेसा मिअपक्खिणो पाअवाअ। मह उण मन्दभार
१. सुष्टु प्रत्यभिज्ञातमार्यपुत्रेण ।
२. सखि बासन्ति, किं त्वया कृतमार्यपुलस्य मम चैतदर्शयन्त्या । हा धिक हा धिक् । स एवार्यपुत्रः । तदेव पञ्चवटीवनम् । सैव प्रियसखी वासन्तिका । त एव विविधविसम्भसाक्षिणो गोदावरीकाननोद्देशाः । त एव जातनिर्विशेषा
निद्रपक्ष्मा चक्राकारं भ्रमयति मुहुर्विश्वमावर्तयन्ती' इति । करकिसलयतालैः करसंघटनजाततालध्वनिभिः। जातिभेदाभिप्राय बहुवचनम् । वत्सलेन सस्नेहेन ॥ १९ ॥ अनुरुधन्ते अनुसरन्ति । कतिपय इति । कतिपयकुसुमानामुद्गमः उत्पतिः यस्मिनिति विग्रहः । स्मरतीति । एष गिरिमयूरः गिरिप्रियो मयूरः गिरिमयूरः । शाकपार्थिववत्समासः । गिरेः प्रियवं उन्नतत्वनिरुपावत्वादिना । अक्ष अस्मिन् प्रियतमापरि . वर्धितकदम्बवृक्षे खजन इव खबन्धुविषय इव यतः यस्मात्कारणात प्रमोद प्रीति एति