पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
उत्तररामचरिते

  अन्तःकरणतत्त्वस्य दम्पत्योः सहसंश्रयात् ।
  आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७॥

 वासन्ती - इतोऽपि देवः पश्यतु ।

  अनुदिवसमवर्धयत्प्रिया ते
   यमचिरनिर्गतमुग्धलोलबर्हस् ।
  मणिमुकुट इवोच्छिखः कदम्बे
   नदति स एष वधूसखः शिखण्डी ॥ १८ ॥

 सीता -- (सकौतुकनेहासम् ।) एसो सो।

 रामः-मोदख वत्स । वयमद्य वर्धामहे ।

 सीता—एव्वं होदु।

 रामः -

  भ्रमिषु कृतपुटान्तमण्डलावृत्तिचक्षुः-
   प्रचलितचटुलभूताण्डवैमण्डयन्त्या ।
  कराकेसलयतालमुग्धया नर्त्यमान ।
   सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥ १९॥

 १. एष सः ।

 २. एवं भवतु।

भावहेतुभूतम् । तदुभयमपीस्याह-अन्तःकरणेति । दम्पत्योः जायापत्योः अन्तःकरणतत्त्वस्य हृदयवस्तुनः स्नेहसंश्रयात् । स्नेहः प्रीतिः ।संनयः संश्रयणम् । अविश्लेष इति थावत् । स्नेहच संश्रयश्चेति समाहारद्वन्द्वः। तस्मानिमित्तादित्यर्थः । अन्नाद्धेतोसतीत्यत्र अन्नफलको वास इति बोधः। तद्वदनापि स्नेहसंश्रयणफलकानन्दग्रन्थिरिति ।आनन्दअन्थिः आनन्दमयप्रन्थिः । आनन्दपदेन ग्रन्थ्यन्तरव्यावृत्तिः । अपत्यमिति पठ्यते परिभाष्यते ॥ १७ ॥ अनुदिवसमिति । अचिरनिर्गतमुग्धलोलबह प्रत्यग्रोत्पन्नसुन्दरचलपिच्छ य अवर्धयत् स एष शिखण्डी वधूसखः सन् कदम्बे वृक्षे मणिमुकुट इव । आनुपूक्त पृथुकृशत्वात् नानावर्णत्वाच रत्नमयकिरीटसादृश्यम् । नदति केका करोति ॥ १८॥ भ्रसिध्धिति । मण्डलं यथा भवति तथा आवृत्तिः मण्डलावृत्तिः। पुटे अन्तः पुटान्तः ।पुटान्तः मण्डलावृत्तिः पुदान्तमण्डलावृत्तिः ।भ्रमिषु भ्रमणेषु।मयूरस्थ मण्डलाकारनाट्यचारिष्विति यावत् । कृता रचिता पुटान्तर्मण्डलावृत्तिः ययोस्तथोक्त चक्षुषी यैस्तथोक्तानि कृतपुटान्तर्मण्डलावृत्तिचक्षूषि । प्रचलितयोः चटुलयोः सुन्दरयोः भुवोः ताण्डवानि नर्तनानि कृतपुटान्तर्मण्डलावृत्तिचक्षुषि च तानि प्रचलितचटुलभूताण्डवानि चेति विग्रहः । तैः। तदुक्त कनक्रकविना---'किंचाधस्तादुपरि च नयन्त्यानतो-