पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
उत्तररामचरिते

 तमसा-श्रूयते तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा दण्डकारण्यमारत

 सीता - दिडिआ अपरिहीणथम्भो सो राआ।

(नेपथ्ये ।)

  यत्र द्रुमा अपि नृगा अपि बन्धवो मे
   यानि प्रिवासहचरश्चिरमध्यवात्सम् ।
  एतानि तानि बहुकन्दरनिराणि
   गोदावरीपरिसरस्य गिरेस्तटानि ॥ ८ ॥

 सीता--दिडिआ कहं पहादचन्दमण्डलापण्डरपरिक्खामदुब्वलेन आआरेण णिअसोम्हगम्भीराणुभावमेत्तपञ्चहिजाणिज्जो एच अजउत्तो होदि । भअवदि तमसे, धारेहि भम् । (इति तमसामाश्लिष्य मूर्छति ।)

 तमसा-वत्से, समाश्वसिहि समाश्वसिहि ।

(नेपथ्ये।)

अनेन पञ्चवटीदर्शनेन

  अन्तलीनस्य दुःखामेरद्योद्दाम ज्वलिप्यतः ।
  उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥ ९ ॥

हा प्रिये जानकि ।


 १. दिष्ट्या अपरिहीनधर्मः स राजा।

 २. दिघ्या कथं प्रभातचन्द्रमण्डलापाण्डरपरिक्षामदुर्वलेनाकारण निजसीन्चगम्भीरानुभावमात्रप्रत्यभिज्ञेय एवार्यपुत्रो भवति । भगवति तमसे, धारय माम् ।


खरसंदर्मेण प्रत्यभिजानामि तदिदनिति वेधि ॥ श्रूयत इति । तपातः तपश्चरतः । कडादिरयम् । दण्डधारणा अपराधाहुगुणशिक्षगार्थम् । एक्वाकः इक्ष्वाकुवेश्यः । 'दाण्डिनायन--' इत्यादिसूत्रेग दिलोपः ॥ अपरिहीनवर्मः अन्यूनधर्मः ॥ यव्त्रेति । अध्यवात्सम् उषितवानस्लि: 'उपायथ्यावसः' इति कर्मत्वम् । एतानीति । गोदावरीपरिसरस्य गोदावरीसमीपवर्तिनः ॥ ८॥ परिक्षामदुर्बलेन दुर्बलायमानेन । पाठान्तरम् 'परिक्षामधूसरेण' इति । भतिकृशेन दुर्बलेन चेत्यर्थः ॥ अनुभावमात्रप्रत्यभिज्ञेयः प्रभावेन केवलं प्रत्यभिज्ञातुं शक्यः ॥ अन्तहीनस्येति । अन्तलीनस्य अन्तगूढस्य । उद्दाम उल्वणं यथा तथा अञ्च ज्वलिध्यतः एतदव्यवहितोत्तरक्षणमा-